________________
मण्डपविधानम्
२३५
388
392
396
400
चतुर्दिग्भद्रसंयुक्तमेकद्वित्रिकभागिकम् । देवानां च विलासार्थ शृङ्गाराख्यं तु मण्डपम् ॥ १४ ॥ पायामं चाष्टभागेन विस्तार पूर्ववद् भवेत् । तभागे द्विचतुर्भागं तन्मध्ये चाङ्गणं भवेत् ॥ १५ ॥ तबहिश्वावृतांशेन कुर्यात्तत्तदलिन्द्र(न्द)कम् । तबहिश्यावृतांशेन मण्डपं द्वि()शमेव वा ॥१६॥ चतुर्वासं चतुष्कर्णे द्विद्विभागेन योजयेत् । तबहिश्चैकभागेन परितो वारमिष्यते ॥ १६७॥ तद्दीघे(दैये) मध्यसूत्रं तु(त्रस्य) वामे द्वारं तु पूर्ववत् । वंशमूलाप्रयोः सर्वे(व) कर्करीकृतनेत्रकम् ॥ १६८ ॥ द्वांशैकं तत्र विस्तारं निर्गम भद्रसंयुतम् ।। सर्वेषामपि वर्णानां सू(सु)गतं सर्वदेशिकम् ।। १६६ ॥ चतुर्भागाधिकायाम विस्तारं पूर्ववद् भवेत् । ललाटे गंशविस्तारं रसभागं तदायतम् ॥२०॥ पुरतः पृष्ठवाप्रे(भागे) तु ए(चै)कभागेनलिन्द्र(नालिन्द)कम् । वंशमूले तु वासं स्यात्कुर्यात्तु द्वित्रिभागतः ॥२०१॥ शेष प्रागुक्तवत्सर्व युक्त्या तत्रैव योजयेत् । तदेवाने चतुर्भागं चोक्तवन्मण्डपं तु वा ॥२०२॥ केचित्षडष्टभागेन विस्तारायाम(मं) कल्पयेत् । ललाटे द्वि(य)शषड्भागं विस्तारायाम(मं) मण्डपम् ॥२०३ ।। एकांशे तत्पुरेऽलिन्द्र(न्द) द्वित्रिभागाङ्गणं भवेत् । तत्पुरे पार्श्वयोः शेषं महावा(द्वा)रं तु कल्पयेत् ॥ २०४ ॥ ललाटे द्विं(ञ)शविस्तारमा(रा)यामं मण्डपं भवेत् । एवं तु प्रागतं प्रोक्तं सर्वकर्मसुखावहम् ॥ २०५॥ सप्तांशं तु(क्रम)विस्तारं नवभागं तदायतम् । त्रिभाग(गेन) पञ्चभागेन चाङ्गणं विस्तृतायनम् ।। २०६ ॥ तबहिश्च द्विभागेन परितो मण्डप भवेत् । अथवा तत्रिभागेन ललाटे मण्डपं भवेत् ॥ २०७॥
404
408
412