________________
२३४
मानसारे
पिध्यायः
360
364
368
372
वेदाष्टांशविस्तारमायाम [च] मण्डपं भवेत् । वंशे मूलाग्योः सन्धिर्द्वि (न्धिं द्वि)चतुर्भागेन कारयेत् ॥ १८० ॥ एकद्विवासयोर्मध्ये द्विचतुर्भागाङ्गणं भवेत् । एतत्पार्श्वे द्वयोश्चै(यं चै)कं चा(च)तुर्भागेन द्वारकम् ॥ १८१ ॥ दीर्घ (दैये) च मध्य सूत्रं तु(त्रस्य) वामे द्वारं प्रकल्पयंत् । अथवा तस्य मध्ये तु कुड्यवा(व्या)सं विभाजिते ॥ १८२ ।। कुखाभ(ह)द्वारसंयुक्तं शेषं युक्त्या प्रयोजयेत् । एवं तु भूषनाख्यं स्यात् शू(च्छु )द्राणां पचनालयम् ।। १८३॥ तद् द्विभागेन विस्तारे तस्माद् द्वि(ञ)शाधिकायतम् । पञ्चांशेन द्विभागेन पूर्ववद् द्वारसंयुतम् ॥ १८४ ॥ वासमेतद्(क)द्वयोर्मध्ये त्रित्रिभागाङ्गणं भवेत् । एकांशेन त्रिभागेन पार्श्वे द्वारं प्रयोजयत् ।। १८५ ॥ तद्बा परितोऽलिन्दमेकभागेन कारयेत् । दीर्घ(दैध्ये) मध्यमभागे तु द्वारं संकल्पयंत्सुधीः ॥१८६ ॥ एकद्वित्रिभागेन निर्गमं भद्रविस्तृतम् । एवं तु मण्डपं हर्म्य देवभूसुरभूपतेः ॥ १८७ ॥ पचनार्थमिति प्रोक्तं नानातलद्वारैरपि । तस्माद् दधिकायाम विस्तार पूर्ववद् भवेत् ॥ १८८॥ तन्मध्ये चाङ्गणा(गम)शेन परितो द्वि(य)शेन मण्डपम् । तस्यान्तं चैकभागेन परितस्तु खलूरिका ॥ १८६ ।। सद्दीर्घ(दैये) मध्यसूत्रात्तु(त्रस्य) वामे द्वार प्रकल्पयंत् । शेषं तु पूर्ववत्कुर्यान्मण्डपं हर्म्यमीरितम् ॥ १६० ।। सर्वेषामपि वर्णानां बालालोकनयोग्यकम् । षड्भागविस्तृत चैव सप्तभागायतं तथा ।। १६१ ।। तद्भागेन द्वित्रिभागेन मध्यरङ्गं प्रकल्पयेत् । मध्यस्तम्भान्परित्यज्य परितः ग्रंशेन मण्डपम् ।। १६२ ॥ तबाझे चावृतांशेन भूवृतालिन्दसंयुतम् । चतुर्दिशु चतुरं कर्णे लाङ्गलभित्तिकम् ॥ १३ ॥
376
380
384