________________
३४]
मण्डप विधानम्
पृष्ठे च पार्श्वयेाः कुड्यं पुरता पादसंमि (यु) तम् । तन्मुखे द्वित्रिभागेन निर्गमं चासनसंयुतम् ॥ १६६ ॥ कर्णे लाङ्गलभित्तिः स्याद् भ्रमरावृतबाह्यके । एकांशेनाङ्घ्रिसंयुक्तं पुर (र) पार्श्वे तु (च) भद्रकम् ।। १६७ ।। धनाधिपमण्डपं स्याद् देवभूसुरयोग्यकम् ।
तदेव मध्याङ्गयसंयुक्तं चौरार्थ द्विजभूपतेः ॥ १६८ ॥ तदेव भागाधिकायाममिष्टदिग्गतभित्तिकम् । भूपतीनां च वैश्यानां कोशरत्नादियोग्यकम् ।। १६६ ॥ तदेवाधिक मायामं मध्यभागाङ्गणं भवेत् । एकभागावृतावासमिष्टदिग्गतभित्तिकम् ।। १७० ।। आयाममध्यसूत्रं तु (त्रस्य) वामे द्वारं प्रकल्पयेत् ।
(ए) ककर्करी भद्रं स्याद् भ्रमरांशेन पूर्ववत् ।। १७१ ॥ शूद्राणां च इ ( चे ) ति प्रोक्तं धान्यागारमथ नामकम् । चतुरंशं विस्तारं स्यात् ए (दे ) कभागाधिकायतम् ।। १७२ ।। पश्चांश अंशकेनैव मण्डपं परिकल्पयेत् ।
तन्मुखेव (खैक) त्रिभागन निर्गमं भद्रविस्तृतम् ॥ १७३ ॥ तत्पुरे तु द्विपार्श्वे वा प्रपां चैकेन कारयेत् । भद्रान्तं कुड्यसंयुक्त मण्डपं पृष्ठपार्श्वयोः ।। १७४ ।। देवतानां च मानार्थ भूषणाख्यं तु मण्डपम् । तदेकभागाधिकायामं विस्तारं पूर्ववद् भवत् ।। १७५ ।। द्भाद्विभागेन विस्तारं भण्डपं भवेत् । द्वित्रिभागाङ्ग पूर्वे ए ( चै) कभागं खलूरकम् ।। १७६ ॥ मण्डपं तु (पस्य) विना दीर्घे (देयें) द्वारं कुर्याद् विचतयः । भूषणाख्यं च विप्राणां योग्यं पुंसवनार्थकम् ।। १७७ ।। तदेव भागाधिकायामं विस्तारं पूर्ववद् भवेत् । त्रिचतुर्भागमायामं मण्डपं परितेो भवेत् ।। १७८ ॥ एवं सुभूषणाख्यंस्याच्छेषं पूर्वोक्तवन्नयंत् । भूसुरादित्रयाना चोपनयनादियोग्यकम् ।। १७६ ॥
29
२३३
332
336
340
344
348
352
356