________________
२३२
मानसारे
तद्बाझावृतांशेन (ना) लिन्द्रं (न्दं) कुर्याद् विचक्षणः । तत्पुरे पृष्ठपार्श्वे तु भ्रम (मा) लिन्द्र (न्दमे ) कभागतः ।। १५२ ॥ तचतुष्कर्णदेशे तु कर्करी (रीं) चाष्टभद्रक (का) म् । ऊर्ध्वकूटसमायुक्तं द्वारभद्रैस्तु संयुतम् ॥ १५३ ॥ तन्मुखे पुरतः पार्श्वे द्वारसंयुक्तभद्रकम् । तत्कर्ण च द्वयोर्भद्रं चतुर्थ कर्करीकृतम् ॥ १५४ ॥ कर्करीभद्रसंयुक्तं मण्डपस्य विशालकम् । एकद्विभ्यै(ज्ये)कभागं स्यात्कर्करी भद्रनिर्गमम् ॥ १५५ ॥ मध्ये भद्रे तु विस्तारं पञ्चषड्भागमेव वा । तत्समं निर्गमं वापि द्वित्रिवेदाशमेव वा ॥ १५६ ॥ भद्वैस्त (द्रं तत्पुरपार्श्वे तु कुर्याद् द्वारं तदंशक (दायत ) म् । एकद्वित्रितलं मध्ये मण्डपे चोर्ध्वकूटकम् ॥ १५७ ॥ एवं तु मालिकाकारं शेषं प्रागुक्तवन्नयेत् । सर्वालङ्कारसंयुक्तं माल्याकृत(लाकृति) मितीरितम् ॥ १५८ ॥ देवतालाकनयोग्यं देवदेवस्य मण्डपम् । एवं तु मण्डपं प्रोक्तं देवभूसुरभूपतेः ॥ १५६ ॥ विस्तारे चैकभक्त्ये (क्त्या) वा यथेष्टायामवर्धनात् । सर्वेषां मण्डपानां तु पूर्वोक्तानां तदायतम् ॥ १६० ॥ द्विभक्तिविस्तृतं तस्मात् ए (दे) कभागाधिकायतम् । मध्येकभक्तिवासं स्यात्पुर(र:) पार्श्वे च मण्डपम् ॥ १६१ ॥ आत्मार्थ विप्रसद्मे तु यजनार्थ मुदीरितम् । तदेव द्विगुणायामं मध्यरङ्ग (ङ्ग) द्विभागतः ।। १६२ ॥ तत्पार्श्वे चैकभागेन वासं कुर्याद् विचक्षणः । तत्पुरेऽलिन्दमेकांश मथवा निर्वासमण्डपम् ॥ १६३ ॥ अथवा वंशमूले तु चैकद्विं (i) शेन वासकम् । एवं तु विप्रयोग्यं स्याद्धनदाख्यं तु मण्डपम् ॥ १६४ ॥ त्रिभक्ति विस्तृतं तस्मात् ए (दे) कभागाधिकायतम् । तदर्थेन द्विभागेन मण्डपं चान्नतासनम् ।। १६५ ।।
[ चध्यायः
304
308
312
316
320
324
328