________________
३४]
मण्डप विधानम्
तदंशेनावृता लिन्दं त्र्यंश (शं) मध्ये तु मण्डपम् । मध्यस्तम्भं तु सर्वेषां युक्त्या द्वारं प्रयोजयेत् ॥ १३८ ॥ तन्मुखे द्वंशमावृत्य (तं) द्वा शेषं तथाङ्गणम् । परितश्चैकभागेन तद्वाह्ये भ्रम (मा) लिन्द्र (न्द ) कम् ॥ १३६ ॥ एवं तु सौख्यकं प्रोक्तं शे प्रागुक्तवन्नयेत् । नदीतीरे तटाके वा सिन्धुतीरे प्रकल्पयेत् ॥ १४० ॥ सर्वेषां (र्वासां देवतानां च तीर्थयोग्यं प्रकीर्तितम् । पश्चदशांशविस्तारमेक त्रिंशायतं तथा ॥ १४१ ॥ अथवा चतुरश्रं स्याच्चतुर्द्वारसमन्वितम् । तन्मध्ये पञ्चभागेन सप्तभागाङ्गयं तथा ॥ १४२ ॥ तद्बाह्ये परितांऽशेन कुर्यादन्तर ( रा ) लिन्दकम् । खलूरिकापि तद्बाह्ये त्रित्रिभागेन मण्डपम् ॥ १४३ ॥ तद्बाह्यावृतालिन्दमेकभागेन कारयेत् ।
तद्बहिश्चावृतांशेन कारयेद् भ्रमालिन्दकम् ॥ १४४ ॥ पञ्चाशं द्वि(मं)शविस्तारं निर्गमं भद्रसंयुतम् । मण्डपस्य बहिर्देशे प्रपां परितस्तु कारयेत् ॥ १४५ ॥ मण्डपे चोर्ध्वकूटं स्यान्मा लिका कृति (तिं) विन्यसेत् । अथवा रुद्र (तत्तद्वारण) संयुक्तं वातायनसमन्वितम् ॥ १४६ ॥ कर्णे (र्णे)ककर (कर्करी)भद्रं स्याद्युक्त्या तत्रैव योजयेत् । सर्वालङ्कारसंयुक्तं मालिकाख्यं तु मण्डपम् ॥ १४७ ॥ मध्यं (ध्य)कर्णे जलं पूर्य (र्ण) जलं पुष्पैरलङ्कृतम् । एवं वसन्तयोग्यं स्याद् देवानां चत्रियादि ( दी ) नाम् ॥ १४८ ॥ पोडशांशेन विस्तारं द्वात्रिंशायामकं तथा । पूर्ववच्चतुरश्रं स्यान्मध्यस्तम्भान्परित्यजेत् ॥ १४६ ॥ मध्याङ्गणं तु षड्भागं शेषं प्रागुक्तवन्नयेत् ।
तदेव षोडशांशे तु मध्यरङ्कात् (ङ्ग) षडंशकम् ॥ १५० ॥ तद्बःह्यावृतांशेन चान्तर( रा ) लिन्द मिष्यते । तद्बहिश्च त्रियं (त्र्य) शेन मण्डपं परितस्तथा ॥ १५१ ॥
२३१
276
280
284
288
292
296
300