________________
अिध्यायः
248
252
266
मानसारे दशांशं चतुर स्यात्षट्पडशं तु मध्यमे । ऊर्ध्वकूटसमायुक्त परितो ग्रंशेन मण्डपम् ॥ १२४ ॥ मध्ये द्वारं द्विभागं स्याद् द्विषड्भागेन चाग्रतः । तद्भागेन द्विभागेन द्वारे(र)पार्श्वे तु वदिकम् ॥ १२५ ॥ परिताऽलिन्द्र(न्द)भागेन वारण मुखभद्रकम् । प्रथवा नेत्रभद्रं स्यात् शे(च्छे)षं युक्त्या प्रयोजयेत् ॥ १२६ ॥ दर्भाख्यं मण्डपं प्रोक्तं कुखरस्यालयं तथा । एकादशांशविस्तारमाय विंशदंशकम् ।। १२७ ॥ एकभाग(ग) द्विभाग वा मण्डपं परितस्तथा । शेषं तु चाङ्गणं मध्ये चेष्टदिग्द्वारसंयुतम् ॥ १२८ ॥ मष्टमेकैकपतिः स्यादश्वानां निलयान्वितम् । कौशिकं मण्डपं प्रोक्तं शेष युक्त्या प्रयोजयेत् ॥ १२६ ॥ द्वादशांशं तु विस्तारमायामं तवयं भवेत् । अष्टांश चाङ्गणं मध्ये परितः ग्रंशेन मण्डपम् ॥ १३०॥ इष्टदिगवा(ग्द्वा)रसंयुक्तमिष्टदिग्गतभित्तिकम् । कूलधारणमित्युक्तं गोस.(वा)सयोग्यकम् ॥ १३१ ॥ प्रयोदशांशविस्तारं समानं वायताश्रकम् । विस्तारं च यदायाम युक्त्वा तत्रैव योजयेत् ॥ १३२ ॥ सप्तांशं विस्तृत मध्ये कल्पयेदङ्गणं भवेत् ।। तस्य बाह्यावृतांशेन कारयेत्तन्मसूरकम् ।। १३३ ॥ विस्तारद्वयमायामशेषं युक्त्या प्रयोजयेत् । सदा मण्डपं कुर्याद् द्वि(य)शेनावृतमेव च ॥ १३४ ॥ चतुर्देिशु चतुरिमिष्टदिग्गतभित्तिकम् । वत्तद्वापावृतांशेन कुर्यात्तत्समलिन्द्र(मालिन्द)कम् ॥ १३५ ॥ पञ्चाशं चन्द्र(यश) विस्तारं निर्गमं भद्रसंयुम् । मुखाङ्गाख्यमिति प्रोक्तं सत्रयोग्यं तु मण्डपम् ॥ १३६ ॥ मन्वंशसमविस्तारम(रं तत्समा)धिका(कमा)यतम् । दक्षिण पश्चिमे वापि चतुर्दशांशमायतम् ।। १३७ ।।
260
264
268
272