________________
२२३
2.20
224
228
मण्डपविधानम् तन्मध्य(ध्यां)शासनादीनां तोरणं कल्पवृक्षकम् । सन्मानं चोक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ११०॥ मण्डपे द्वे(द्वि)विमानं स्यादेकं वा द्वितलं तु वा.। मण्डपाने प्रपाङ्ग स्याद्यथेष्टायाम कल्पयेत् ॥ १११ ॥ तस्य मध्ये त्रिभागेन विस्तारमायाम चौक्तवद् भवेत् । नाटकादि प्रच्छादनं शेषभागावृतं प्रपा ॥ ११२ ॥ पाप्रैकद्विभार्ग वा कर्णे लाङ्गलभित्तिकम् । तन्मुखे यश(शं) विस्तारं भद्रमंशेन निर्गमम् ॥ ११३ ॥ विस्तारसमभद्रं वा सोपानं मुखभद्र(पार्श्व)योः । शेष प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ११४ । प्रथवा मण्डपदेवाख्ये द्वित्रिभागेन पूर्ववत् । प्रथवा मण्डपाख्ये(ये) तत्प्रपासंयुक्तं बाह्यके ॥ ११५ ॥ एकभाग(ग) द्विभाग वा परितोऽलिन्द्र(न्द)मिष्यते । शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ११६ ॥ अथवा मण्डपो[प]देशे सप्तसप्तांश(शं) हस्तिकम् । त्रिपञ्चांशेन विस्तारमायाम मध्यरङ्गकम् ॥ २१७ ॥ सद्बाह्ये चैकभागेन मण्डपं परितस्तथा। तन्मुखे च (द्वि)त्रिभागेन भद्रं शेषं तु पूर्ववत् ॥ ११८॥ अथवा मण्डपाये तत्प्रपासंयुक्तं बाह्यके । एकभाग(ग) द्विभागं वा परितोऽलिन्द्र(न्द)मिष्यते ॥ ११ ॥ शेष प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् । शतपादयुतं वाथ सहस्राधिक(क) मण्डपम् ॥ १२० ॥ युक्त्या तद्भक्तिमध्येन यथेष्टायतविस्तृतम् । देवानां भूपतीनां च कुर्यादास्थानमण्डपम् ॥ १२१ ॥ अष्टांशं चतुर वा नवांशं चतुरश्रकम् । तत्तदायाममेवं च भूपतीनां च योग्यकम् ॥ १२२ ॥ मण्डपं पूर्ववत्कुर्याद्देवता(वस्यः) चोत्सवार्थकम् । सालाख्या व कृताख्या स्यात्कुट्यागे रङ्गके सुधीः ॥ १२३ ।।
232
236
240
244