________________
२२८
मानसारे
मागेन विशाले तु चायामं चाष्टभागिकम् । वेदभागेन विस्तारं षड्भागायामतोऽङ्गयम् ॥ ६६ ॥ तत्तद्वाह्मावृतांशेन वसर्प (मण्डपं ) परिकल्पयेत् ।
या मध्यसूत्रात्तु वामे द्वारं तु योजयेत् ॥ ६७ ॥ कूटाङ्गं मण्डपं कुर्यात्प्रच्छादनमथापि वा । शिवाख्यमण्डपं प्रोक्तं धान्यकर्यन (र्षण) योग्यकम् ॥ ६८ ॥ पञ्चसप्तांशविस्तारं तस्याद् द्वि ( )शाधिकायतम् । मण्डपं तत्तदंशेन समाश्रं वायतं तु वा ॥ ६६ ॥ सत्रिभागाङ्गयं मध्ये चैकांशेन मण्डपम् ।
वातायनसमायुक्तं इ(चे)ष्ट दिग्वा ( ग्द्वा) रसंयुतम् || १०० ॥ मध्ये प्रच्छादनं कुर्यात्प्रपाङ्गवाधिकल्पयेत् । एकभागेन वाह्ये तु परिता भूप ( भ्रमा) लिन्दकम् ॥ १०१ ॥ तत्तद्भागेन संयुक्तं मे (मा)नं प्रागुक्तवन्नयेत् ।
एवं तु (नृत्ताख्य) मण्डपं प्रोक्तं नृत्तश्रवणयोग्यकम् ॥ १०२ ॥ तदेव चेष्टदिग्वासं कुर्यादेवं तु जालकम् । वस्त्राभरणशास्त्रादीन (दि) रत्नकोशादियोग्यकम् ॥ १०३ ॥ विस्तारं सप्तभागं स्याद्यथेष्टांशं तथायतम् । समानं वाथ वेदानं कुर्यादास्थानमण्डपम् ॥ १०४ ॥ विस्तारं (र) द्विगुणं वापि त्रिगुणं वा तदायतम् । समाश्रं सप्तसप्तांशे त्रित्रिमध्यमरङ्गकम् ॥ १०५ ॥ परिता (तश्चै) कैकभागं द्वांशैकं मण्डपं तु वा । पृष्ठे तत्पार्श्वयेोर्मध्ये मुखे पादसमन्वितम् ॥ १०६ ॥ पार्श्वयोः पृष्ठतः द्वारं (तस्तु वा ) द्वारं तु प्रस्तरं तु वा । पाश्र्वैकद्वारसंयुक्तं युक्त्या सोपानसंयुतम् ॥ १०७ ॥ चतुर्दिक्षु द्विभागैकं विस्तारं भद्रनिर्गमम् । अथवा मुखभद्रे तु निर्गमं तद्विभागिकम् ॥ १०८ ॥
सद बाथ पार्श्वे च कुर्यात्सेोपानभूषणम् । तस्य मध्येचरङ्गे तु मौक्तिकेन प्रपान्वितम् ॥ १०६ ॥
[चध्यायः
192
196
200
204
208
212
216