________________
164
168
172
मण्डपविधानम् देवतार्थ समुद्दिश्य पानीयाय मण्डपम् । पूर्वोक्तविजयं नाम मण्डपं तत्र कारयेत् ॥२॥ त्रिभागं चतुरनं स्याञ्चतुरसमन्वितम् । द्विरष्टरविपादं स्यात् सिद्धयागादि सर्वशः (योगाख्यमुच्यते) ॥३॥ चतुरनं चतुर्भाग मध्यस्तम्भान्परित्यजेत् । मध्ये तु चाङ्गणं कुर्यात् अं(द)शेनावृतमण्डपम् ॥४॥ एकद्वित्रिचतुर्दा कल्पयेत्तु यथेष्टकम् । एकांशमावृतद्वारे पावें वारं प्रकल्पयेत् ॥८५॥ एकद्विभागविस्तारं निर्गमं भद्रसंयुतम् । सत्पावें च मुखे वापि सोपानं तत्प्रकल्पयेत् ॥८६॥ एव तु पद्मक प्रोक्तं देवानां पचनालयम् । सिचाख्यमण्डपं चापि पचनालयमेव च ॥७॥ विस्तारे() वेदभागेन पञ्चभागं तदायतम् । द्वित्रिभागाङ्क(ग)णं मध्ये चांशेनावृतमण्डपम् ॥८॥ तदहिः परितो देशे चांशेनालिन्द्र(न्द)मिष्यते । त्र्यंशं तद्भद्रविस्तारं निर्गमांशेन योजयेत् ॥८६॥ वातायनसमायुक्तमेकद्वार प्रकल्पयेत् । अङ्गणे च प्रपायुक्तं पद्मा(पुष्पाख्यं पुष्पमण्डपम् ॥१०॥ पञ्चाशं चतुरअं स्यात्तत्रिभागाङ्गणं भवेत् । तद्वहिः परितोऽशेन मण्डपं परिकल्पयेत् ॥ १॥ वातायनसमायुक्तं भद्र(द) शेषं तु पूर्ववत् । जलसंपूरितार्थाय(र्थ च) भद्रमण्डपमीरितम् ॥१२॥ तदेकभागाधिकं वापि द्विभागाधिकमायतम् । तद्धि द्वित्रिभागं वा (विस्)तारं पञ्चाशमायतम् ॥६३ ॥ विस्तारे मण्डपं कुर्यात् इ(दि)ष्टदिग्गतभित्तिकम् । प्रमे च द्वारमेकं स्याद्युतबा चाङ्गणसंयुतम् ॥६४ ॥ तद्वहिः परितोऽशेन द्वारं कुर्याद्विचक्षणः । मण्डपं भद्रसंयुक्तं धान्यनिक्षेपयोग्यकम् ॥१५॥
176
180
184
188