________________
२२५
108
112
116
मण्डपविधानम् नभो(वो)चे कूटसंयुक्तं सर्वालङ्कारसंयुतम् । एवं तु चतुरनं स्यात्तदायाममिहोच्यते ॥ ५४॥ त्रिभक्ति विस्तृतं चैव षड्भक्त्यायाम(म) कल्पयेत् । मूलाप्रे द्वारसंयुक्तं पार्श्वे द्वारं न योजयेत् ॥ ५५ ॥ अथवा हीनाधिकांशेन दीर्घ (दैर्घ्य)मध्ये प्रवेशनम् । अंशेनावृतालिन्दं स्यात् शे(च्छे)ष प्रागुक्तवनयेत् ॥ ५६ ॥ चतुर्भाग(ग) विशाले तु चाष्टभागा(गमा)यते तथा। मंशषड्भाग(ग) विस्तारं दीर्घ(दैय) मध्ये च मण्डपम् ॥ ५७ ॥ परितस्तस्य बाह्ये तु भागेनालिन्द्र(न्द)मिष्यते । यथेष्टद्वारसंयुक्तं शेषं प्रागुक्तवनयेत् ।। ५८॥ भूतभागेन विस्तारं दशभागं तथायतम् । तन्मध्ये त्र्यंशविस्तारं चाष्टांशायाममण्डपम् ॥ ५ ॥ सदहिः परितो वा(द्वा)रमेकभागेन कारयेत् । शेष प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥६०॥ षड्भागेन विशाल स्यात्तत्समेनाधिकायतम् । द्विभार्ग मध्यरङ्गं स्यात्परितो गंशेन मण्डपम् ॥६१॥
शेष प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् । विस्तारं चाष्टभागं स्यादायाम षोडशांशकम् ॥६२ ॥ तन्मध्ये वेदभागेन द्वादशांशेन मण्डपम् । परितः ग्रंशेनालिन्द्र(न्दं) स्याच्छेषं पूर्ववदाचरेत् ॥१३॥ नवभागेन विस्तारं चाष्टदशांशमायतम् । त्रिभागे द्वादशांशेन मध्यरङ्ग प्रकल्पयेत् ॥ ४॥ तद्वायेऽलिन्द्र(न्द)मंशेन परितो द्वि(नं)शेन मण्डपम् । अथवा चैकभागे तु चान्तर्बाह्येत्वलिन्द्र(न्द)कम् ॥६५॥ चतुष्कणे चतुर्मा(वा)सं चेष्टदिग्गवभित्तिकम् । उक्तवद् द्वारसंयुक्तं सर्वालङ्कारसंयुतम् ॥६६॥ विशाले दशभागे तु विंशत्यंशं तथायतम् । परितोऽलिन्द्र(न्द) भागं स्याद्विस्तारं द्विगुणायतम् ॥६॥
120
124
128
182
28