________________
२२४
मानसारे
द्वात्रिंशत्छुद्रनास्पङ्ग शेषं प्रागुतवमयेत् । षड्भागं चतुर स्यात् षट्त्रिंशत्पादसंयुतम् ॥४०॥ चतुर्दितु चतुर मध्यपादान्परित्यजेत् । द्विभक्त्यै(क्तया) भक्त(भित्ति)विस्तारमेकभागेन निर्गमम ॥४१॥ द्वात्रिंशत्क्षुद्रनास्यङ्गं सर्वालङ्कारसंयुतम् । चतुःषष्ट्यधिसंयुक्तं सप्तसप्तद्वि(वि)भागिकम् ॥ ४२ ॥ चतुष्पादं त्यजेन्मध्ये चतुरं चतुर्दिशि । त्रिभक्तिविस्तृतं भद्रमेकमागेन निर्गमम् ॥४३॥ षष्ठयधिकयुक्तं वापि तन्मध्ये चोर्ध्वकूटकम । चत्वारिंशत्तु नास्यङ्ग शेषं पूर्ववदाचरेत ॥४४॥ चतुरष्टाष्टभित्ति(भक्ति)श्व चतुःषष्ट्यधिसंयुतम् । चतुर्दितु चतुर मध्यपादान्परित्यजेत् ॥४५॥ चतुर्भागेन भद्रं स्यादेकमागेन निर्गमम् । पूर्ववत्तुद्रनास्यङ्गं युक्त्या तत्रैव योजयेत् ॥४६॥ नन्दनन्दविभागेन विस्तारायामत(मस्त)त्समम् । . कल्पयन्नवरङ्गं स्यात्वषट्पादान्परित्यजेत् ॥ १७ ॥ नन्दाष्टभागसंयुक्तं त्रिभागैकेन भद्रकम् । चतुर्दिक्षु चतुरं तत्तदने सभद्रकम् ॥ ४८। सर्वालङ्कारसंयुक्तं षडष्टे वाल्पनासिका। तन्मध्ये चोर्ध्वतुङ्ग(कूट) स्याश्चत्वारिंशाष्टनासिकम् ॥४॥ तदेवषोडशस्तम्भं त्यजेत्कर्णचतुष्टये । चतुर्दितु चतुर्भाग(र) वेदमागैकभद्रकम् ॥ ५० ।। सर्वालङ्कारसंयुक्तं शेषं युक्त्या प्रयोजयेत् । एकादशभागेन [च] मण्डपं चतुरश्रकम् ॥५१॥ सालिन्द्रं (न्दं) नवरङ्गं स्यादष्टोत्तरशताघ्रिकम् । तद्वहिःपरितोलिन्द्र(न्द)मेकभागेन कारयेत् ॥ ५२ ॥ चतुर्दिक पञ्चभागेन भद्रं चांशेन निर्गमम् । चतुर्दितु चतुर चतुःषष्यल्पनासिकम् ॥ ५३॥