________________
३४]
मण्डपविधानम् अथवा तन्मुखे कुर्यादेकद्वित्रि च मण्डपम् । स्नपनं प्रतिमाङ्गानां गीतनृत्तार्थमण्डपम् ॥२६॥ मण्डपं द्वितीयं चैतत् प(द)प्रमण्डप(पं) तन्मुखे [च] । मादी चाध्ययनार्थ स्यात्प्रतिमामण्डपं तथा ॥२७॥ तत्रैव मण्डपं कुर्यात्प्रतिमामण्डपं बुधः । त्रिचतुः(तुष)पञ्चषट्सप्तचाष्टरन्ध्र वि(द्वि)भित्तिकम् ॥२८॥ प्रथमात्सप्तमान्तं च भित्तिरे(मे)क(का) प्रकल्पयेत् । तस्मात्तथैकपङ्क्त्यन्तमेकभागैर्विवर्धनात् ॥२६॥ मण्डपानां च सप्तानां प्रत्येकं पञ्चधा भवेत् । एवं तु चतुरअं स्यात्तस्मादेकेन वर्धनात् ॥३०॥ तत्समाधिकायाम समं वा चायतं तु वा। युग्मभित्तिश(म्) च यः(यां) कुर्यान्मध्यस्तम्भान्परित्यजेत् ॥३१॥ तस्वधिष्ठान(न) पादं च प्रस्तरं च त्रिवर्गकम् । तदूचे मण्डपाना(न्त) च चूलिकाकर्षहर्म्यकम् ॥ ३२॥ अन्तर(रं) प्रस्तरोपेतं कुर्यात्तु समलङ्कतम् । सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥३३॥ होपपीठयुक्तं चेत्सोपपीठादिमण्डपम् । पीनोपपीठहर्म्य चेन्मण्डपं च त्रिवर्गकम् ॥ ३४ ॥ हयं च (य॑स्य) विपरीत चेत्स्वामिनो मरणं ध्रुवम् । प्रस्तरं तत्र यत्तत्र प्रासादवदलङ्कतम् ॥ ३५॥ प्रासादवदलङ्कृत्य चाधिकालङ्कतं तु वा। बामं चालयवद् भूष्य मण्डपान्तमितीष्यते ॥३६॥ तेषां क्रमेण विन्यासं(स)लक्षणं वक्ष्यतेऽधुना। चतुरप्रसमाकार सममानं त्रिभित्ति(भक्ति)कम् ॥ ३७॥ षोडशस्तम्भसंयुक्तं चतुरिसमन्वितम् । चतुर्दिक(ग) भद्रविस्तारमेकभागेन निर्गमम् ॥ ३८॥ चतुर चतुर्भक्तिः षोडशस्तम्भसंयुतम् । चतुर्दितु चतुरिमेकभागेन भद्रकम् ॥३६॥