________________
२२२
मानसारे
क्रमुकेशयुक्तं वा वेणुभिश्चोर्ध्ववंशकम् । दीर्घ तिर्यग्वंशं चोर्ध्वे तद् दीर्घवंशकम् ॥ १२ ॥ नालिकेरलाभि (लैश्च बध्वा त्वाच्छादनं भवेत् । अन्यैरपि दलास्(लैः) सर्वे य(वर्य ) थालाभं विवानयेत् ॥ १३ ॥
वातेन त्वचलं तत्र कुर्याद्दचिणिका प्रपा ।
प्रपा च प्रपाचैतत्कुर्यात्तत्तद्विचतयः ॥ १४ ॥ देवालये गृहे वापि मण्डपे पृथगेवया । अन्तर्वापि बहिर्वापि परितस्तु यथा प्रपा ।। १५ ।। यत्र देशे प्रपां कुर्यात्तत्र दोषो न विद्यते । इति प्रपानमुक्तं तं (तु) मण्डपं वच्यतेऽधुना ॥ १६ ॥ देवालयेषु सर्वेषु संमुखे बहुमण्डपम् । पुण्यक्षेत्रे तथारामे ग्रामादौ वास्तुमध्यमे ॥ १७ ॥ चतुर्दिक्षु विदि वापि बाह्याभ्यन्तरतोऽथवा । नरायां गृहमध्ये च संमुखे मण्डपं तु वा ॥ १८ ॥ सर्वेषां वासयोग्यार्थ (ग्यं च) मण्डपं यागमण्डपम् नृपाणामभिषेकार्थ मण्डपं नृत्तमण्डपम् ॥ १६॥ पाणिपीडनसिद्धार्थं तथा मैत्रं च मण्डपम् । उपनयनमण्डपं चैव तथा च खानमण्डपम् ॥ २० ॥ अर्भकानां मुखालोकं (क)मण्डपं सतीमण्डपम् । चौरार्थ मण्डपं चैव चाग्निकार्यार्थमण्डपम् ॥ २१ ॥ सुखान्वितार्थ कल्पेत मण्डपं विधिवत्क्रमात् । मण्डपानां च सर्वेषां स्थानमुक्तं पुरातनैः ॥ २२ ॥ प्रासादाभिमुखे सप्तमण्डपं कल्पयेत्क्रमात् । प्रादौ [च] नपनार्थ च द्वितीया (यम) ध्ययनमण्डपम् ॥ २३॥
1
विशेषं रूपनार्थ मण्डपं च तृतीयकम् ।
चतुर्थ प्रतिमागारं पश्वमं स्थापनमण्डपम् ॥ २४ ॥
षष्नं चापि ततः कुर्यात्तत्तत्तीर्थमण्डपम् । सप्तमं नृत्तगीतार्थमागार तत्साधकार्थकम् ॥ २५ ॥
[चध्यायः
24
28
32
36
40
44
48