________________
मण्डपविधानस् सर्वेषां मण्डपानां तु लक्षणं वक्ष्यतेऽधुना। तैत(ति)लानां द्विजातीनां वर्णानां वासयोग्यकम् ॥१॥ भक्तिमान तथा भित्तिविस्तारं चाप्यलिन्द्र(न्द)कम् । प्रपाङ्ग मण्डपाकारं पञ्चभेदं (दः) क्रमो(मेयो)च्यते ॥२॥ प्रत्यर्धहस्तमारभ्य षट्पबलवर्धनात् । पञ्चहस्तान्तकं भित्तिपञ्चा(च)दशविशालकम् ॥३॥ विस्तारस्य समं दीर्घ(दैय)मधिकं चैकमेव वा। विस्तारद्विगुणान्तं च प(तु चे)कैकाङ्गलवर्धनात् ॥४॥ विस्ताराष्टांशकांशेन वर्धनाद् द्विगुणान्तकम् । एवं भक्त्यायतं प्रोक्तं भक्तितारमिहोच्यते ॥५॥ एक हस्तं समारभ्य षट्पडङ्गुलवर्धनात् । भक्तितारं द्विहस्तान्तं पञ्चधा परिकीर्तितम् ॥६॥ एकभक्ति(भित्ति) द्विभक्ति(भित्ति) वालिन्द्र(न्द)विस्तारमेव च । अधिष्ठान विना कुर्याजन्मादिप्रस्तरान्तकम् ॥७॥ अथवा पादशं च संयुक्तं तत्प्रपाकम् । खदिरं खादिरं चैव घात(पूति)पादस्य(प) दारुभिः ॥८॥ अन्यैः सारद्रुमैः प्रोक्त होमान्तं(हेम)पाद[4] दारु च। मधुकं चोरिणी साल(लं) न्यै:(न्यत्) श्रेष्ठद्रुमोत्तमम् ॥६॥ अथवा शिलासंयुक्तं प्रपासर्वाङ्गमेव च । शुद्ध() मिश्र च संकीर्य यथाशोभं बलं तु यत् ॥१०॥ यथालाभं द्रुमैः स्तम्भैः वंशे त्ववसारवृक्षकम् । कमुकं स्तम्भयुक्तं वा घातयेत्थापयेत्सुधीः ॥११॥