________________
२२०
मानसारे
अर्थनाशं श्रवाहीनं भविष्यति न संशयः । नागबन्धं तथा वली गवाक्षं कुञ्जराक्षकम् || २६१ ॥ स्वस्तिकं सर्वतोभद्रं नन्द्यावर्ताकृतिस्तथा । पुष्पबन्धं सचित्राङ्गं रत्नसङ्घैरलङ्कृतम् ॥ २६२ ॥ एषां (वं) वातायनरूपं नागवल्यादि दैवतम् । उक्त द्विस्तृतायामे नन्दनन्दपदं भवेत् ॥ २६३ ॥ भुजङ्गद्वयमेकं स्यादेकादशपदे त्रिधा ।
नाग (चतुर्वेदाष्टभागं वा कुर्याद् वातायनं बुधः ॥ २६४ ॥ सप्तसप्तपदं कृत्वा पत्रवल्यादिमण्डितम् ।
युग्मायुग्मपदैर्वाथा (थ) चान्य[द्] वातायनेपि च ।। २६५ ॥ एकद्वित्रिचतुः(तुष्) पञ्चमात्रैरङ्घ्रिकपट्टिका ।
द्विस्तारघनं सर्व कुर्याद् वै शिल्पि ( प ) वित्तमः || २३६ ॥ गोपुरे कूटकष्टादिप्रीवे पादान्तरे तथा । घने वाप्यधने वापि यथा वातायनैर्युतम् ॥ २६७ ॥ प्रन्यैस्तु (न्येषां) वास्तु सर्वेषां यथाचेोक्तव दे (द्दे) शके । कुर्याद् वातायनं सर्व श्रीसंपत्प्रदायिकम् ॥ २६८ ॥ प्रथमात्तु सार्धकर (रं) षट्षड् (ए) मात्रवृद्धया । तत्पश्वबाहुमवधि त्रिविशालमे के ( मिति भवेत् ) ॥ २६६ ॥ शोभादिपश्चदश [च] पञ्चविधप्रमाणम् [स्यात् ] । द्वारेषु चैव विदितं द्विगुणेोदयं स्यात् (कथ्यते ) ।। ३०० ॥
इति मानसारे वास्तुशास्त्रे गोपुर विधानं नाम त्रयस्त्रिंशेाऽध्यायः ॥
[चध्यायः ३३ ]
584
588
592
596
600