________________
३३]
गोपुर विधानम्
क्षुद्रनास्यर्कसंयुक्त श्रीविशालं तथैव च । षोडशद्रनास्य विष्णुकान्तमिहोच्यते ॥ २७८ ॥ क्षुद्रनास्या तथा विंशत् इ (दि) न्द्रकान्तं प्रकथ्यते । क्षुद्रनासी (सी) विना कुर्याद् ब्रह्मकान्तमिति स्मृतम् ॥ २७६ ॥ गलकूटं विनाकुर्यात् स्कन्दकान्तं विशिष्यते ।
मध्यनास्युन्नतं तत्र नासिका पञ्जरान्वितम् ॥ २८० ॥ एवं तु शिखरं (श्रीकर) प्रोक्तं कर्करीनासिकाकृतम् । शालाकोष्ठ (छ) विशेषेण स्तूपिकान्तं प्रकल्पयेत् ॥ २८१ ॥ भद्रशालां तु तत्कुर्यात्सौम्यकान्तमुदीरितम् ।
एतानि दश (नव) भेदः स्याच्छिरो (रः) सर्वेषु योजयेत् ॥ २८२ ॥ गोपुरावनसर्वेषु यत्तलाद्यैर्विशेषतः ।
सर्वावि (र्वस्येन्द्रस्य बाह्ये तत्पादं त्यक्ता प्रकल्पयेत् ॥ २८३ ॥ अनुक्तमन्यता ग्राह्यमग्राह्यमवसीदति ।
(वातायनलचणम्)
वक्ष्ये वातायनानां च लक्षणं विधिनाधुना ॥ २८४ ॥ सर्वेषामपि हर्म्याणां मण्डपादीनि वस्तु ( वास्तू) नि । तथा वातायनस्थानं तथा वै चातवर्ग (न) येत् ॥ २८५ ॥ तैत (ति)लानां तु तं तं तु नराणां हे (ही) ष्यते बुधैः । नराणां जालकं सर्व देवानामपि योग्यकम् ॥ २८६ ॥ तद्विस्तारादयं सर्व प्राचीनेाक्तं विचारयेत् (त्वदाचरेत्) । पादपालिकया युक्तं पत्रपुष्पैरलङ्कृतम् ॥ २८७ ॥ देवानां जालकानां च मध्यरन्धसमन्वितम् । द्विजानां भूपतीनां च मध्यस्तम्भं विसर्जयेत् ॥ २८८ ॥ मध्यमं पट्टिकायुक्तं कुर्याच्छिल्पविचक्षणः । वैश्यानां शूद्रजातीनां मध्ये स्तम्भं प्रयोजयेत् ॥ २८६ ॥ न कुर्यात् पट्टिकमध्ये चैकं मध्वं शुभावहम् । लीनं तु नहि कुयोंद्यथेच्छया ।। २६० ॥
२१६
556
560
564
568
572
576
580