________________
२२७
500
604
508
गोपुरविधानम् अष्टभागं तु विस्तारमायाम तेन वर्धनात् । षोडशांशं यथा न्याय्यं पूर्ववद्विधिना चरेत् ॥ २५० ॥ नवांशं विस्तृता(तमा)रभ्य वसुपङ्क्तयवसानकम् । मायाममिति हि प्रोक्तं विन्यासं पूर्ववद् भवेत् ॥ २५१ ॥ विशालं दशभाग द्वाविंश[]भागावसानकम् । नवपडतंयशे(शमे)कविंशांशं दीर्घविन्यासमुच्यते ॥ २५२ ॥ नन्दपतंयश(शं) विभजेचतुस्तले तु त्रिवर्गकम् । षट्सप्ताष्टभाग वा नवार्ध वार्धरुद्रकम् ॥ २५३ ॥ भानु सैकार्कभागं तु मध्यकोष्ठविशालकम् । शेषं चान्तरालं च द्विभार्ग कर्णकूटकम् ॥ २५४ ॥ मध्यशाला विशेषेण पञ्च षट् सप्तकं भवेत् । द्विभार्ग वा त्रिभागं वा शालामध्ये तु भद्रकम् ॥ २५५ ॥ एक वा द्विभार्ग वा त्रिभार्ग निर्गमं तु वा । प्रथवा हारदेशे तु ए(चे)कद्वित्रियुगांशकम् ।। २५६ ॥ मध्यकेत्वनुशाखाश्च निर्गमं चैकभागिकम् । शेषं तु चान्तरालानां नासिकापजरान्वितम् ॥ ०५७ ॥ अधोभूमिश्चान्तराले कुम्भकुम्भतलान्वितम् । भद्रं वापि विभद्रं वा कर्णहादिमण्डितम् ।। २५८ ॥ हारं च कर्णकूटं च (चो)त्तरान्त [च] शिखान्तकम् । मध्यकोष्ठस्य शाले तु भद्रशाला विशेषतः ॥ २५६ ॥ पक्षशालान्वित वाथ (चो)वंशालान्वितं तुवा । नीडाकारयुक्तं वापि चार्धशालान्वितं भवेत् ॥ २६॥ उत्तरान्त कपोतान्तं प्रतिकान्तमथापि वा। एवं च मध्यकोष्ठे तु शालानामुन्नतं मतम् ॥ २६१ ॥ शालावटे(ललाटे च) भद्रकोष्ठं वासकोष्ठं वा[पि] कल्पयेत् । एवमेतद्दशांशेन [च] शेषं तु युक्तितो न्यसेत् ॥ २६२ ॥ एवं चतुस्थ(स्त)लं प्रोक्तं नवांशारम्भं पूर्ववत् । तस्मादायते सर्वे(वस्मिन्) द्विगुखान्तांश(शं) पूर्ववत् ॥ २३॥
612
516
620
524
27