________________
२१६
मानसारे
विस्तारं चायतं पङ्क्तिभागं कुर्याद् विचक्षणः । भित्तितारं कलांशं स्यात्तद्बहिः परितेांशकम् ।। २३६ ।। एवं तु कूटशालाद्यैर्मा(दि मा )नं कुर्याद् विशेषतः । अथवांशाधिकायामं द्वादशांशायतं तु वा ।। २३७ ।। त्रयोदशांशकं वापि द्विसप्तभागमेव च ।
पश्वादशांशकं वापि षोडशांशं तदायतम् ।। २३८ ।। विन्यासं पूर्ववत्कुर्यात्सप्तदशांशमायतम् ।
मध्यकोष्ठं नवांशं स्यात्तन्मध्यं भूतभागिकम् ।। २३६ ॥ विस्तारे मध्यभद्रं तु निर्गमं चैकभागिकम ।
अन्तरालं चतुर्भागं तन्मध्ये यंश (शं) भद्रकम् ॥ २४० ॥ प्रथवाष्टादशांशं तु ग्रा(चा) यामं तत्प्रकल्पयेत् । दशांशं मध्यकेष्टं च षडंशं मध्यभद्रकम् ।। २४१ । घनं वाप्यघनं वापि भित्तिं कुर्याद् विचक्षणः । ऊर्ध्वभाग (गं) विशेषेण कहर्म्यादिमण्डितम् ।। २४२ ।। तत्रैवाभ्यन्तरं चाथ भागमेवं (कं) जलस्थलम | तद्वाझे चार्ध्वभागं तु भित्तिरेवं तथैव च ।। २४३ ।। अथवा दण्डमानेन वेशनं निर्गमं तथा ।
एतेषां द्वारशालेतु द्वितलं कारयेद् बुधः ।। २४४ ॥ गोपुरं (र) त्रितलं (ल) न्यासं लक्षणं वक्ष्यतेऽधुना । सप्तांशं च द्विसप्तांशं भागं चैकैकवर्धनात् ।। २४५ ।। एवमायमिदं प्रोक्तं शिल्पिभिः प्रवरैः कृतम् । द्विभागं भित्तिविस्तारं परितः शेषं तु गेहकम् ।। २४६ ।। तस्य बाह्यावृतं ज्ञात्वा भागं कुर्याज्जलास्थले । तद्बहिः परितोऽशेन कहर्म्यादिमण्डितम् ।। २४७ ।। तत्तस्मादावृतांशेन श्रा (चा) दिदेशे जलस्थलम् । तत्समं तद्बहिः कुर्यात्कूटशालाद्यमानकम् ॥ २४८ ॥ मध्यशालाष्टभक्तिः (क्तिक) प्रोक्तं कर्णकूटाष्टकं तथा । हाराषोडश संयुक्तं शेषं प्रागुक्तवन्नयेत् ॥ २४६ ॥
[ श्रध्यायः
472
476
480
484
488
192
496