________________
३३]
२१५
444
448
452
गोपुरविधानम् नवभागं तथायामे कोष्ठायाम शरांशकम् । त्रिभागं वास्यभद्रं स्यानिर्गमं चैकभागिकम् ॥ २२२ ॥ दशभागं तथायामे पूर्ववत्परिकल्पयेत् । एकादशांशकं कुर्यात्पञ्चाशं मध्यकोष्ठकम् ।। २२३ ॥ द्वादशांशं तथायामे शालायाम षडंशकम् । मध्यं द्विभाग(ग) भद्रं स्यानिर्गमं चैकभागिकम् ॥ २२४ ॥ हारस्य मध्यदेशे तु अ(चा)नुशाला विशालकम् । तत्पार्श्वद्वययो(यार्)हारं नासिकापञ्जरान्वितम् ॥ २२५ ॥ शेषं तु पूर्ववत्कुर्यातद्युक्त्या तत्रैव योजयेत् । विस्तार सप्तभागं तु वसुभागं तथायतम् ॥ २२६ ॥ भित्तिविस्तारमेकांश परितः शेषा(षम)न्तरालि(ल)कम् । तत्तद्वाह्यावृतांशेन शेषमूयं विचक्षणैः ।। २२७ ।। नवभागं तथायामे दशभागमथापिवा । एकादशांशकं वापि विन्यसेञ्चैव पूर्ववत् ॥ २२८ ।। त्रयोदशांशमायामे मध्यशाला विशालयुक् । त्रिभागं चान्तरालं स्याचतुर्दशायतं तथा ।। २२६ ॥ मध्यकोष्ठं तदष्टांशं शेषं प्रागुक्तवन्नयंत् । अथवा चाष्टभागं तु विस्तारं तु नवायतम् ॥ २३० ।। द्विभार्ग भित्तिविस्तारं शेष नालिगृहं मतम् । तद्बाह्ये परितश्चांशं कर्णकूटाद्यमानकम् ।। २३१ ।। अथवा दशभागं स्यात्तदेकादशभागिकम् । द्वादशांशायतं वाथ त्रयोदशायतं ततः ॥ २३२ ॥ चतुर्दशायतं वापि पञ्चा(च)दशाशदीर्घकम् । मध्यकोष्ठं शरांशं स्यात्तत्समं चान्तरालकम् ॥ २३३ ।। तस्य मध्य विशेषण विभागं चानुशालकम् । एक चाध्यर्धभागं वा मध्यकोष्ठन्तु(स्य) निर्गमम् ॥ २३४ ॥ मष्टभागं तथायामे मध्यकोष्ठं रसांशकम् । शेषं पूर्ववदुद्दिष्टं नवभागमथापि वा ।। २३५ ॥
456
460
464
468