________________
३३]
२०६
276
280
284
गोपुरविधानम् प्रस्तरं चैकभागं स्यात्तदर्ध वेदिकोदयम् । तद्वयं प्रोवतुङ्गं स्याद् प्रोवतुङ्गद्वयं शिरः ॥ १३८ । एकांशं स्तूपिकोत्तुङ्गं शेषं पूर्ववदाचरेत् । जन्मादिस्तूपिकान्तं च चत्वारिंशा(शद)ष्टभागिकम् ।। १३६ ॥ तद्भागोपानमधीशं प्रोव(सत्रि)पादाष्टकांशकम् । उपपीठमधिष्ठानं तुङ्गं सार्धद्वयांशकम् ॥ १५०॥ तद्वर्य पादतुङ्गं स्यात्तदर्ध प्रस्तरोदयम् । सार्धवेदा(दम)घित्तुङ्गं स्यात्सपादांश(श) मञ्चकम् ।। १४१ ।। पादाधिक्यं चतुर्भागं पादादं) मञ्च(छ) द्विभागिकम् । वेदांशं पादतुङ्गं च सत्रिपादांश(शं) मञ्चकम् ।। १४२ ॥ तदूर्ध्वं चरणोत्तुङ्ग सत्रिपादगुणांशकम् । प्रस्तरा(रम)त्य(ध्य)र्धभागं तु वेदितुङ्गं त्रिपादकम् ।। १४३ ।। तवयं गलतुङ्गं स्याद् गुणांशं शिखरोदयम् । सार्धमागं शिखात्तुङ्ग(ग)मेवं पञ्चतलं विदुः ॥ १४४ ।। शेषं च पूर्ववत्कुर्याद् द्वारशोभादि पञ्चधा । घनं चाप्यघनं चैव विन्यासमथ वक्ष्यते ।। १४५ ॥ विस्तारायाम(म) शोभादि(दो) पूर्ववद् गोपुरान्तकम् । यन्मानं बहिरन्येन चूलिकामानसंमि(यु)तम् ॥ १४६ ॥ एक हस्तं समारभ्य षड्षउङ्गलवर्धनान् । शोभादिगापुरान्तायनिर्गम(मः) पञ्चधा भवेत् ।। १४७ ।। अथवा भित्तिपाद(दात) स्याद् दण्डमानेन संयुतम् । एकदण्डं समारभ्य दशदण्डावसानकम् ।। १४८ ।। यथा विमानसंयुक्तं तत्र दोषो न विद्यत । प्रज्ञान(नान्) मानविच्छेद्यं सर्वदोषकरं भवेत् ॥ १४६ ।। तस्मात्परिहरद्विद्वान्माननिर्गममेव च । यथातारे तु धाता(त्व)शं गर्भगंहं गुणांशकम् ॥ १५० ।। एकमा(का)वृतभित्ति(त्तिः) स्यादेवमेकतलं भवेत् । द्वितले तार(रं) सप्तांशं वेदांशं गर्भगहकम् ॥ १५१ ।।
288
292
296
300
26