________________
२०४
मानसारे
[प्रध्यायः
136
140
144
148
बसभागा(गम)इनितुङ्ग स्यात्षड्भागं तु विभाजिते । त्रिमार्ग चोपपीठं तु शिवभाग(ग) मसूरकम् ।। ६८॥ द्विमागं पादतुङ्गं स्याचदूचे प्रस्तरादिकम् । शिखान्तं चोर्ध्वमाने तु वलानामधुनोच्यते ॥६६॥ प्रविष्ठानसमं मञ्च(च) तत्समं गलतुङ्गकम् । गलोचद्विगुणं प्रोक्तं शिखरस्यादयं न्यसेत् ॥७०॥ शिखरो (राध) शिखोत्तुङ्गं स्तूपित्रयसमे(ममे)वच । एवमेकवलं प्रोक्तं द्वितलादिवले(लमे)व च ॥१॥ सुद्रमध्यं च मुख्यानां गापुरे तु विशेषतः ।। प्रखरादिशिखान्तं स्याद् गण्यमानं प्रवक्ष्यते ॥७२॥ यस्याधिष्ठानमानं च तस्यमानवशो(शादु)च्यते । मसूरोषसमं वापि तदष्टांशोनमेव वा ॥७३॥ पचपट्सप्तहीन वा प्रस्तरोदयमेव च। ऊर्श्वभूमाघिकोत्तुङ्गमधः पादवशा(शादु)च्यते ॥ ७४ ॥ प्रष्टसप्तकषट्पञ्चभागमेकोनमेव वा । सत्तागोनमानं तु (चो)ोवंचरणोदयम् ।। ७५ ॥ बखे सल्ले प्रस्तराणां तु कारयेदेव मानतः । शुद्रगोपुरमेवं तु कारयेद् गण्यमानकम् ॥ ७६ ॥ नवमेकादशैकार्कमधिष्ठानोदयं भवेत् । वत्तद्भागार्धभागेन शेषं वत्प्रस्तरोदयम् ।। ७७ ॥ प्रथ(ध:)पादोदयं तत्तद्भागानं चोर्ध्वपादकम् । प्रस्तर(रस्स) चैव मानं तु कारयेत्तु तले तले ॥७८॥ यस्य मानावस्या(सा)नान्त चोत्तरान्तं विधीयते ।। तदू प्रस्तरं युक्तं तस्या(र्धा) चोर्ध्ववेदिका ।। ७६ ।। तद्वयं गलतु स्यात्प्रस्तरोचद्वयं शिरः । शिखराध शिखोत्तुङ्गं तेषां गोपुरमेव व ॥८॥ एवं तु मध्यमानं तु गोपुगणां तु गण्यकम् । मुख्यगोपुरगण्यं तु वक्ष्यते विधिनाधुना ॥१॥
162
166
160