________________
२०३
108
112
116
गोपुरविधानम् देवानां मूलहयं स्यादधिकं च (य॑स्य हीनाधिक्य) समानतम् । शाभादिगापुर सर्वे (र्वस्मिन्) चैवमुक्तं पुरातनैः ॥ ५४॥ नराणां मूलहर्म्यस्य समं हीनोन्नतं तु वा । मूलस्याधिकभूमिं चेद्राजराष्ट्रं विनश्यति ॥ ५५ ॥ एवं तु द्वारशोभे च चोक्तवत्कारयेत्शुधीः । अन्यथा द्वारदेशे तु यथाचोक्तवदाचरेत् ॥५६॥ द्वारपादोदया(ये) वेदभागं कुर्याद्विचक्षणः । एकांशं चोपपीठोच्चं तत्समं च मसूरकम् ॥ ५७॥ द्विभागं पादतुङ्गं स्यात्कारयल्लक्षणान्वितम् । द्वारपादोदये धातुपतिभागं विभाजिते ॥ ५८॥ उपपीठं शरांशं च वेदभागं मसूरकम् । अधिष्ठान(न)द्विगुणानितुङ्गमेवं प्रकल्पयेत् ॥ ५६ ।। द्वारपादोदये नन्दभागं कुर्याद्विचक्षणः(तत्रिभागिकम्)। उपपीठोदयं चातिभागमेव(वं) मसूरकम् ॥ ६०॥ तवयं पादतुङ्गे च कुर्यादेकोनविंशतिम् । भागं तवारपादोच्चे सप्तभागोपपीठकम् ॥ ६१ ॥ वेदभङ्ग(भाग)मधिष्ठानमष्टभागाधितुङ्गकम् । द्वारपादोदये चैव षड्भागमेवं विभाजिते ॥६२॥ उपपीठोदयं क्षिप्रं भागमंश(शं) मसूरकम् । तस्मात्तु(योस्तु) पादतुङ्गं च द्विभाग(गुणं) चैव कारयेत् ॥६३॥ द्वारपादोदय(ये) चैव(क)विशद् भागं विभाजिते । उपपीठोदयं चैव नवभागं प्रकल्पयेत् ॥ ६४ ॥ अधिष्ठानं वेदभागं तु वसुभागा(गम)धितुङ्गकम् । एकादशविभागे तु द्वारपादोदयं भवेत् ।। ६५ ॥ पञ्चाशं चोपपीठोचं यशा(शम)धिष्ठान(न) मानतः । पाहतुङ्गं चतुर्भागमथवा द्वारपादके ॥६६॥ तुङ्गे च त्रयोविंशद् भागमेवं विभाजिते []। एकादशो(शमु)पपीठं च चतुर्भागं मसूरकम् ॥७॥
120
124
128
132