________________
२०१
मानसारे षडशाशकहीन वा पञ्चाशं चैकहीनकम् । चतुर्भागेकहीनं वा द्वारतुङ्ग प्रकल्पयेत् ॥ ४० ॥ उत्तराधो(धः) प्रदेशान्तं जन्मोल द्वारमारभेत् । द्वारोत्सेधमिदं कुर्यात्तस्यां तवारपट्टिका ॥४१॥ शेष युक्त्या प्रयुजीयातू(जोत) द्वारमेव तु सर्वशः । मूलहऱ्यावशाद्वषये गोपुराणां च मानकम् ॥ ४२ ॥ मूलप्रासादविस्तारं(र)समं वा पादमधिकम् । अथवात्य(ध्य)विस्तारं पादोनद्विगुणं तु वा ॥ ४३ ॥ द्विगुणं वा प्रकर्तव्यं द्वारशोभादिविस्तारम् । प्रत्येकं पञ्चधा मानमायामं पूर्ववद्भवेत् ॥४४॥ मूलाधिष्ठानपादस्य समाधिष्ठानपादकम् । प्रथवाधिष्ठानपादोष(4) वेदभूतषडंशकम् ॥ ४५ ॥ सप्तकाष्टांशकं कृत्वा तत्तदेकहीनकम् । शेष सवारशोभादीन(ना) पादाधिष्ठानतुङ्गकम् ॥ ४६॥ उपपीठं विना कुर्याद् द्वारतुङ्गमिति स्मृतम् । शोभे(भके) चैकभूमि (मिः) स्याद् द्वितीये द्वितलं भवेत् ॥ ४७॥ द्वारप्रासाददेशे तु त्रितलं चैव कारयेत् । हये चतुस्तलं कुर्यात्तल(ल)पञ्चक(क) गोपुरम् ॥४८॥ अन्येषां महता(ति) देशे षोडशान्तं तलान्वितम् । एकत्रिपञ्चभूमादौ द्विद्विभूमिविवर्धनात् ॥ ४६॥ त्रिविधं चैकभूमौ च (त्वे)कार्कतलसीमकम् । द्वित्रिवेदवलादी च चतुर्दशतलान्तकम् ॥ ५० ॥ द्विवले च त्रिविधं प्रोक्तं द्विद्विभूमिविवर्धनात् । त्रितखात् पञ्चत्रयान्तं त्रिवलं त्रिविधं प्रोक्तम् ॥ ५१ ॥ चतुःषडष्टभूमादी षोडशान्तं तलसीमकम् । कन्यसं त्रिविध प्रोक्तं कुर्यादेवं चतुस्तते ॥ २॥ पञ्चसमतलं (स)नन्दवलादा द्विद्विवर्धनात् । सप्ता(त)दशतलान्तं स्यात्रिविधं पञ्चभूमिके ।। ५३॥