________________
गोपुरविधानम् नैत(ति)लानां नृपाणां च गोपुराणां च लक्षणम् । मानानां सार(२) संगृह्य शास्त्रे संक्षेपतः क्रमात् ॥ १ ॥ तत(ति)लस्योक्तमानं यन्मानुषाणां न कारयेत् । नराणां योग्यमानं यत्तेत(ति)जानां तु योग्यकम् ॥ २ ॥ तुद्रे [च] क्षुद्रमानो(नमु)क्तं मुख्य मुख्यं तु मानकम् । अज्ञानाद्विपरीतं चेत्स्थाननाशं धनक्षयम् ॥ ३॥ . तस्मात्तु गोपुरैर्मा(रमा)नं पंरिहत्या(गृह्यो)क्तवत्कुरु । आद्यके द्वारशोभं तु द्वारशाला द्वितीयके ॥४॥ द्वारप्रासाद(दो) मध्ये च द्वारहर्म्य मयाधिके । महामर्यादि(दादि)कुड्ये [च] महागापुरमीरितम् ॥ ५॥ एवं तु कारयेच्छिल्पी सालानां द्वारके तथा । त्रिपञ्चसप्तकरान्तादेकादशकरं तु वा ॥ ६ ॥ एवं तु द्वारशोभस्य विशालं पञ्चधा मृस्तम् । पञ्चारनि समारभ्य त्रयोदशकरान्तकम् ॥ ७ ॥ द्वारशालाविशालं च पञ्चधा परिकीर्तितम् । सप्तहस्तं समारभ्य पञ्चत्रिधाकरान्तकम् ॥ ८॥ द्वारप्रासादविस्तारं पञ्चभेद विदो विदुः । नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।।६।। सप्ता(त)दशकरान्तं स्याद् द्वारहर्म्यविशालता । एकादशकरा(रमा)रभ्य नवपतिकरान्तकम् ॥१०॥ पञ्चधा विपुलं प्रोक्तं महागोपुरमेव च। पादाधिकम(क) तदाध(दर्ध च) पादानं तत्समाधिकम् ॥ ११ ॥