________________
[अध्यायः
108
112
116
मानसारे पानादिपट्टिकान्त स्यात्पोठतुङ्गमुदीरितम् । पीठतुनोदयार्धन पद्मतुङ्ग प्रकल्पयेत् ॥५४॥ वप्रे वा पट्टिके वापि विस्तारं (निर्गम) परिकल्पयेत् । विस्तारे पञ्चमागे तु वेदाध पद्मविस्तृतम् ॥ ५५॥ पग्रवारत्रिभागैकं कर्णिकाविस्तृतं भवेत् । विस्तारसममुत्सेधं वृत्तं वा पट्टमेव वा ॥५६॥ भद्र वा पद्मसंयुक्तं तुझं प्रागुक्तवन्नयेत् । वृत्तं वा चतुर वा मूलप्रासादवद् भवेत् ॥ ५७ ॥ अधिष्ठानाकारवत्पीठं हाधिष्ठानवद् भवेत् । द्वादशाङ्गलविस्तारमुत्सेधं क्षुद्रविस्तरम् ।। ५८ ॥ उपार्ज करिकर्णयुक्तं कुर्यात्तत्तुद्रपीठकम् । वृषमस्यालय(य)मानं पूर्ववत्परिकल्पयेत् ॥ ५६ ॥ मण्डपाकारवत्कुर्याद्यन्मानारम्यमानकम् ॥६० ।।
विष्ण्वालयपरिवारम् विष्ण्वालयपरिवारलक्षणं वक्ष्यतेऽधुना । पञ्चसालमहाद्वारे द्वारदेवान्प्रकल्पयेत् ॥६१ ॥ द्वारस्य दक्षिणे स्थाप्य चण्डराक्षसरूपकम् । वामे प्रचण्डसंयुक्तं रूपं राक्षसमेव च ॥ १२ ॥ दक्षिणे चक्रसंयुक्त वामे तत्पाञ्चजन्यकम् । दक्षिणे च गणेश च वामे कात्यायनी तथा ॥ ६३ ॥ दपिणे भास्करं चैव वामभागे निशापतिम् । दरिये च भुजङ्गे च(शं) द्वारवामे दिवः (वस्)पतिम् ॥ ६४ ।। प्रथमादिपञ्चमान्तं स्यात्स्थापयेद् द्वारपञ्चके । एवं तु दशधा देवान्द्वाराखामुदितं(तान्) क्रमान् ॥६५॥ प्रमुख वैनतेयः स्यात्सालासालान्तरा भवेत् । प्रमुखे चोत्तरे देशे विष्वक्सेनालयं भवेत् ॥६६॥ अन्तर्मण्डलदेशे तु पूर्ववद् बलिपीठकम् । द्वारस्य दक्षिणे पावें हयं कुर्याद्दिवस्पतेः ॥१७॥
120
12A
128
132