________________
परिवारविधानम् सत्यके वा चान्तरिक्षे वाद्यकरालयं भवेत् । पूषे(ष्णि) च वितथे चापि नाट्या(व्य)कारालयं भवेत् ॥४०॥ गृहक्षते मृष(श)श्चा(स्या)न्तं गणिकादीनां तथालयम् । नैऋ()त्यादावरुणान्नं च गणिकस्यालयं भवेत् ॥४१॥ वरुणाद्वायुपर्यन्तमारामकारकालयम् । वायुकोणादिसोमान्तं नित्यकर्मकरालयम् ॥ ४२ ॥ सोमादीशानपर्यन्तं गान्धर्वालयमेव च । ईशादेरिन्द्रपर्यन्तं संहि(संगी)तार्थ च मण्डपम् ॥ ४३॥ तद्वाो तत्प्रदेशे वा गोशाला परिकल्पयेत् । ईशस्थाने तु कूपं स्यात्तटाकं वा प्रकल्पयेत् ॥४४ ।। चतुष्कोणे तपस्वी (स्वि)नां सत्रावासमठं भवेत् । समीपे वीरभद्राणां गृहश्रेणी च कल्पयेत् ॥४५॥ महामर्यादि(दा)देशे तु वर्णानां वासयोग्यकम् । पश्चिमे विप्रसङ्ग(ः) स्यादक्षिणे क्षत्रियस्य च ॥ ४६॥ उत्तरे वैश्यसङ्गः(ः) स्यात्पूर्वे तु शूद्रसद्मकम् । तद्वाह्ये सर्वजातीनामालयं कल्पयेत्सुधीः ॥४७॥ द्वारस्य वामभागे तु गजाश्वादेस्तथालयम् । उदिते चेशकोणे तु कल्पयेदर्धमण्डपम् ॥४८॥ वायुकोणे तु बाह्ये वा पुष्पोद्यानं तु फल्पयेत् । प्राकारद्वार(रे) सर्वेषां कल्पयंद् वृषभालयम् ॥ ४६॥ वृषभस्योपरि भागे तु कल्पयेद् बलिपीठकम् ।। गोपुरस्य बहिर्वापि स्थापयेद् बलिपीठकम् ॥५०॥ प्रासाद(दाद)दण्डमानेन चैकं वा द्वित्रिदण्डकम् । गोपुगद् बलिपीठान्त सान्तरं मानयेत्सुधीः ॥५१॥ एकद्वित्रिचतुष्पञ्चहस्तं पीठविशालकम् । प्रासादाध त्रिभागैकं पञ्चभागत्रिभागिकम् ॥ १२ ॥ प्रथवा द्वित्रिभागं स्यात्पीठविस्तारमेव च। पीठतारसमोचं वा पादार्धाधिकमेव च ॥५३॥