________________
१६४
मानसारे सोमे च विष्णुं संस्थाप्य मनोजस्यालयं तु वा । मृगे च स्थापनार्थ च गन्धद्रव्यादिमण्डपम् ॥ २६ ॥ प्रदिते दक्षिणामूर्तिमुदिते चान्तदानक(व)म् । ईशे च स्थापयेदेकं रुद्रमूर्तेस्तथालयम् ॥ २७ ।। अथवा यज्ञशालां च स्थापयेद् भागमण्डपम् । पर्जन्ये मजनार्थाय जलपूरितमण्डपम् ॥२८॥ अथवा रुद्रदेवस्य यागमण्डपमेव च। जयन्ते भास्करं स्थाप्य चेशे पाशुपतं तथा ॥ २६ ।। अथवा कामकोष्ठं स्यादालयं कल्पयेत्सुधीः । द्वात्रिंशन्मूर्तिरेवं स्यात्कुर्यात्तु परिवारकम् ॥ ३० ॥ तृतीये सौम्यभागे तु पानीयस्य जलं क्षिपेत् ।। भृशे वाथ महेन्द्रे वा भक्तरूपं प्रतिष्ठयेत् ॥ ३१ ॥ छत्रं च चामराकारं जयन्तस्य पदे तथा। तण्डुल(ल)मण्डपं याम्ये पावके पचनालयम् ।। ३२ ।। गृहपते धान्यशाला ई(चे)शे च यागमण्डपम् ।। गन्धर्वे भृङ्गराजे च स्थापकान्वद्या(नामाल)यम् [स्यात् ॥ ३३ ॥ पूषे च वितथे चैवमालये परिवारकान् ।
मे भवाट(टे) मुख्ये च कल्पयेत्कोशमण्डपम् ॥ ३४ ।। पुष्पदन्ते सूकरौ च(मृगे चैव) शस्त्रमण्डपसंयुतम् । बरुणे वासुरे वापि वस्तुनिक्षेपमण्डपम् ॥ ३५ ।। नागे वापि सगे वापि देवभूषणमण्डपम् । पा(म)दिता दिती वापि शयनार्थ च मण्डपम् ॥ ३६ ।। प्रास्थानमण्डपं चैव चतुर्दितु विदिक्षु च। सापनार्थमण्डपं चापि मानमण्डपमेव च ॥ ३७ ।। गृहप्ते यमे वापि वाहनस्थानमण्डपम् । मर्यादि(दा)भित्तिकस्यान्त मण्डपं वा नराख्यम् ।। ३८॥ श्रद्धाखिङ्ग तथा स्थाप्य यथा दितु विदितु च । मनलानिलकोणे वा स्थापत्यालयमेव च ॥ ३६॥