________________
३॥
परिवारविधानम् पश्चिमोत्तरतः स्थाप्यं चाश्विनीदेवतालयम् । वायुको प्रदेशे तु सरस्वत्यालयं भवेत् ॥१२॥ वायुचन्द्रद्वयोर्मध्ये ममो(न उ)न्मन्यालयं भवेत् । चन्द्रस्थाने धनेशस्य चालयं कल्पयंबुधः ॥ १३ ॥ सोमई(मे)शानयोर्मध्ये जनार्दनालयं भवेत् । ईशे च क्षेत्रपालं च वटुकं वा प्रतिष्ठयेत् ॥ १४ ॥ ब्रह्मा-ईशानयोर्मध्ये भास्करस्यालयं भवेत् । अथवा वायुकोणे तु षण्मुखालयं भवेत् ॥ १५॥ परिवारं षोडशकमेवं प्रोक्तं मुनीश्वरैः। द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ।। १६ ॥ इन्द्रे च वृषभं स्थाप्य सत्यके नन्दिकेश्वरम् । भृङ्गेशं(ङ्गे चेशं) भुवनेशं च कुर्यादन्तरिक्षके ॥१७॥ प्राग्नेयं च धनस्थानं पूषा(प)स्थाने तु चेन्दिराम् । विदधे(तथे) चैकदन्तं स्यात् मुने(जले)शं स्याद्गृहन्नते ॥१८॥ याम्ये चामुण्डिकां स्थाप्य गन्धर्वे पुष्पमण्डल(प)म् । भृङ्गराजपदे चैव नैवेद्यार्पणवेश्मकम् ॥ १६ ॥ मृपे(शे) च वखालयं स्यान्नैर्नृत्ये तु विनायकम् । दीवारिकपदे चैव मूर्तिशूलं समर्चयेत् ॥२०॥ सुप्रोवे च त्रिमूर्ति स्यात्स्थापयेदेकहर्म्यके। पुष्पदन्तपदे चैव पुष्पबन्धनमण्डपम् ॥ २१ ॥ वरुणस्य पदे स्थाप्य(प्यं) चार्धनारीश्वरालयम् । असुरस्यपदे चैव कुर्यात्तु रत्नमण्डपम् ।। २२ ॥ देवानां भूषणावासं स्थापयेच्छेषमागिके । पुस्तकावासनं कुर्याद् रोगस्य च पदे तथा ॥२३॥ षण्मुखस्यालयं कुर्याद्वायुकोणे विचक्षणः । नागस्य च पदे चैव कुर्यात्तु रत्नमण्डपम् ॥ २४ ॥ देवानां भूषणावासं स्थाप्यं च मुख्यदेशके । प्रथवा पार्वती स्थाप्या भयाटस्यपदेऽपि च ॥ २५ ॥
24