________________
परिवारविधानम् सर्वेषामपि देवानां प्राकारान्तं(न्तः) प्रविष्टके । परितः परिवाराणां लक्षणं वक्ष्यतेऽधुना ॥१॥ इन्द्रादिसा(दी पा)ष्टदिग्देशे सा(चा)न्तर्मण्डलसालके । परितो भूतबल्यर्थ क्षुद्रपीठं विनिक्षिपेत् ॥ २ ॥ म(तत्रा)ष्टकं परिवाराणां कृत्वा चान्तरि(नि)हारके । द्वितीये च तृतीये च षोडशपरिवारकम् ॥३॥ द्वात्रिंशष तृतीये वा कल्पयेत्परिवारकम् । तृतीयात्पञ्चसा(शा)लान्तं विनियोगाख्यमण्डपम् ॥४॥ कुर्यात् (क्रियेत) शिल्पिभिः प्राज्ञैः परिवारमिहोच्यते । इन्द्रे च वृषभं स्थाप्य प्रा(चा)मेये चार्यकस्(क) तथा ॥५॥ याम्ये तु सप्तमात्र(वर) च नम्रत्ये तु गणेश्वरम् । पश्चिमे सुब्रह्मण्यं च ज्येष्ठादेवी च वायवे ॥६॥ सौम्ये तु केशव स्थाप्य ई(चै)शान्ये भास्करं तथा । एवञ्चाष्टपरीवारं पूर्वद्वारालयं भवेत् ॥७॥ पश्चिमद्वारहर्येषु पश्चिमे तु गुहं क्षिपेत् । प्रथवा विनायकं प्रोक्तं नैर्मृत्ये स्थापयेत्सुधीः ॥८॥ सोमई(मे)शानयोर्मध्ये दिवि(वष)पञ्च विनिक्षिपेत् । वान्तकद्वयोर्मध्ये सुब्रह्मण्यालयं भवेत् ॥६॥ याम्ये कात्यायनी(नी) वाथ द्वार(र) वाथ प्रकल्पयेत् । याम्ये(म्य)नैर्मृत्ययोर्मध्ये वीरभद्रास्वयं भवेत् ॥१०॥ नैश्त्ये तु गजमुखं पश्चिमे तु पितामहम् । प्रत्यस्नईत्ययोर्मध्ये चैकपादेश्वरालयम् ॥ ११ ॥