________________
३१]
प्राकारविधानम्
देवानां चक्रवर्तिनां मध्ये द्वारं प्रकल्पयेत् । महद्द्द्वारमिति प्रोक्तमुपद्वारं तु चोक्तवत् ॥ ४० ॥ भूसुरादिनराणां च मध्ये द्वारं न योजयेत् । मध्यसूत्रंतु (त्रस्य) वामे तु महाद्वारं प्रकल्पयेत् ॥ ४१ ॥ तद्बहिः परिता देशे (षट्) सप्तसा (शा) लां प्रकल्पयेत् । नारावासार्थ (र्थ) रथ्या च प्राकारद्वयमण्डितम् ॥ ४२ ॥ तत्तद्विस्तारमानानि दण्डमानेन मानयेत् । त्रिचतुर्दण्डमारभ्य द्विद्विदण्डविवर्धनात् ॥ ४३ ॥ नवपङक्तिदण्डपर्यन्तं सान्तरादिमहान्तकम् । प्रत्येकं तत्रिधा मानं सप्तप्राकारमीरितम् ॥ ४४ ॥ शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कार संयुतम् । चतुर्द्वारसमायुक्तं महागोपुरमागतम् ॥ ४५ ॥ दै (देवानां मानुषाणां च गृहप्राकारमीरितम् । एकद्वित्रिचतुष्पभ्वं सा (शा) लं कुर्यात्सभित्तिकम् ॥ ४६ ॥ संकुलं चेत्तु मा (शा) लानां सान्तरं भित्तिकं न्यसेत् । एतानि मालमानानि हीनाधिक्यं न कारयेत् ॥ ४७ ॥ द्वि(झ)डुलं च समारभ्य चैका दुलविवर्धनात् । षडङ्गलावमानं स्यात्क्रमात्सर्वे जलस्थले ॥ ४८ ॥ कंचित्वगुतमारभ्य ए(चैकाङ्गुल [वि]वर्धनात् । षडडुलावसानं स्याद्गोपुरापानतत्समम् ॥ ४६ ॥ प्रासादादन्यशालान्तं जल्लनावार्थनिर्गमम् । कुर्यात्तु भित्तिमूले तु जलद्वारं यथेष्टदिक् ॥ ५० ॥ जातिप्रासादाद्वहिरथ परितः सालमानं कराभ्याम् । तस्मिन् विस्तारमानं प्रथम (मं) कर युगादेकमेकेन वृद्ध्या [त्] ।। ५१ ।। चत्वारिंशत्करान्तं महतिरि ( ती ) ति तत्पञ्च पञ्च प्रमाणम् । कुर्यात्तुद्रं क्रमात्तत्कथितमिति बुधैर्भिन्त्तिरत्या (त्यन्ता) वसानम् ॥ ५२ ॥
इति मानसारं वास्तुशास्त्रं प्राकारविधान नाम एकत्रिंशोऽध्यायः ॥
१६१
80
84
88
92
96
100
104