________________
प्राकारविधानम् प्रथमं तु महापीठं द्वितीयं चण्डितं पदम् । तृतीयं भद्रसंयुक्तं ततः शालाबहिस्तथा ॥१२॥ चतुर्थ सुप्रतीकान्तं पञ्चमं चे(च)न्द्रकान्तकम् । एतच्छन्दं प्रकर्तव्यं विकल्पं तदिहोच्यते ॥१३॥ छन्दप्राकारविस्तारे सार्धाधंन कराधिकम् । प्रथमात्पञ्चमानं स्यात्सार्ध युग्मकरान्तकम् ॥ १४ ॥ एवं विकल्पमानं स्यात्पश्चशाला प्रकीर्तिताः । तदेव पञ्चशालानां षडङ्गलविवर्धनात् ॥ १५ ॥ सप्तहस्ता(पादा)वसानं स्यात्प्रथमात्पञ्चमानकम् । एवमाभास(सं) कर्तव्यं हर्म्यपादं तु वर्धनात् ॥ १६ ॥ केचिच्छन्दकमाने तु त्रित्रिहस्तविवर्धनात् । प्रथमात्पञ्चमानं स्यात्पञ्चा(च)दशकरान्तकम् ॥१७॥ एतत्तुद्रविमाने तु सा(शा)लाच्छन्दविमानकम् । केवलहस्तमानेन जातिप्राकार(२) मानयेत् ॥१८॥ त्रिहस्तेनादिसालादि द्विद्विहस्तविवर्धनात् । प्रत्येकं पञ्चशालानां पञ्चपञ्चप्रमाणकम् ।। १६ ॥ क्षुद्राल्पमध्यमुख्यानां जातिसा(शा)ला प्रकल्पयेत् । प्रासादार्धविशालेन मध्यमुख्याश(ख्याल्प)मानके ॥ २० ॥ सा(शा)लानां पञ्चधाधन्तं मानयेत्पूर्ववद्भवेत् । हर्म्यपादस्य बाह्यात्तु सालं(शाला)कुड्यावसानकम् ॥ २१ ॥ अन्तर्वापि बहिर्वापि कुट्य(ड्य)मध्यावसानकम् । उपपीठं चाधिकं वा[पि] हर्म्यपादं तु(दस्य) निर्गमम् ।। २२ ॥ तत्कुड्यवेदिकान्तर्वा सालं प्रागुक्तमानकम् । हर्म्यसा(स्या)र्धवृधा(र्धावृत)मानं यद्वास्त(स्त्वा)य(या)मतत्समम् ॥ २३ ॥ तचतुर्भागिकैकेन वर्धयेत्तन्मुखायतम् । विस्तारात्पञ्चधायाम पञ्चधा विस्तृता(विपुला)न्तकम् ॥ २४ पञ्चसा(शा)लामुखायाम प्रत्येकं पञ्चधा ततः । एकैकं विंशदायाम पञ्चविंश(शाला)मुखायतम् ॥ २५ ॥