________________
प्राकारविधानम् बला(ल्य)र्थ परिवागर्थ शोभार्थ रक्षणार्थकम् । पचप्राकारहाणामधुना वक्ष्यते क्रमात् ॥ १॥ जात्यादिभेदहाणां तन्मानेन तु विन्यसेत् । जातिप्राकारसर्वेषां हस्तमानेन योजयेत् ॥२॥ छन्दा(जात्या)दि सर्वशा(सा)लानां प्रासादांशेन मानयत् ! जातीनां जातिसालानां घूतारं विभाजिते ॥ ३॥ तदूर्ध्व वेदिकादीनां प्रोवमूर्ध्नि शिखान्तकम् । समकन्धरवृद्धिः स्यात्पञ्चसालावसानकम् ।। ४ ॥ छन्दादिपञ्चसाला(ला) च छन्दाद्यंशेन मानयेत् जातिप्रासादविस्तारे विन्यसेत्सकलं पदम् ॥ ५ ॥ पादिशाला ततः कुर्यादन्तर्मण्डलमीरितम् । द्वितीयमन्तहारा च मध्यहारा तृतीयकम् ॥ ६॥ प्राकारं तचतुर्थ च कथितं तन्मयाधि(दि)कम् । ततः पञ्चमशा(सा)ला च महामर्याद(दा)मीरितम् ॥७॥ पञ्चशालामिति प्रोक्तं तन्त्रविद्भिः पुरातनैः। तत्पीठपा(प)दविन्यास(सश्)चादिशालविशालके ॥८॥ तथा द्वितीयशाले तु स्थण्डिलं (ल) पदं विन्यसेत् । तत्तत्कुर्यात्तु शास्लायां तृतीये चोभयचण्डितम् ॥६॥ सुसंहितपदं मध्ये मर्यादाया विशाल कं । महामर्यादाविस्तारे पदमीश्ररकान्तकम् ॥ १० ॥ एवं तु जातिशाला(लt) च कुर्याद्धर्म्यवशात्सुधीः । वे(प)चक मूलहये तु छन्दादीनां प्रवक्ष्यते ॥ ११ ॥
12