________________
मानसारे
१९२
सर्वाङ्ग कहादि सान्सरप्रस्तरान्वितम् । विनाभद्रं महाशाला चैकशाला समन्वितम् ॥ २५ ॥ एकभद्रोलशाला च मध्यकोष्ठसमन्वितम् । द्विभद्र(द्रा) चेन्महाशाला मूर्धिशाला(ला) प्रकल्पयेत् ॥ २६ ॥ सभद्र(द्रा च) महाशाला भद्रशाला समन्वितम्(वा)। अवंशाला सभद्राव्यं प्रस्ता(स्त)रं समलङ्कतम् ॥ २७ ।। निर्गमाङ्ग महाशाला शुद्रशाला सवेशनम्। यत्तत्प्रासादमध्ये तु महाशाला(ला) प्रकल्पयेत् ॥२८॥ सर्वेषां हारमध्ये तु क्षुद्रशाला(ला) प्रकल्पयेत । यथा हयें [तु] द्विशते (विदितु) च कर्णकूट विनिक्षिपेत् ॥ २६ ॥ शुद्रशाला तु(लायां) हारा च वंशन युक्तितो न्यसेत् । नासिकापखरादीनां तोरणायं तु परम् ॥ ३०॥ सर्वेषां हयंके हारं चोक्तवत्समलङ्कतम् ।। एकद्वित्रिद्विभार्ग वा प्रासादनिर्गमं भवेत् ॥३१॥ अथवा हस्तमानंन चैकानकेन वर्धयेन् । द्विभूम्यान्ततलान्तं चैकादशकरान्तकम् ।। ३२ ॥ कमात्तु निर्गमं कुर्यायुक्त्वा तत्रैव शिल्पिभिः । मनाल्यातानि चाङ्गानि यस्मिन् हम्र्येषु चोक्तवत् ॥ ३३ ॥
पदङ्गानि सर्वाणि सर्वहम्र्येषु योजयेत् । नानाधिष्ठानसंयुक्तं नानापादैरलङ्कतम् ॥ ३४ ॥ नानापजरादीनां नानावणे (शाले)श्च वोयम् । नानानासिकाकूट नानाहारैरल कृतम् ॥ ३५ ॥ नानाप्रस्तरसंयुक्त नानागल विभूषितम् । नानावेदिका कुर्यामानालङ्कारभूषितम् ॥ ३६ ॥ नानापालिकादीनां नानाङ्ग(ङ्गेषु) स्तूपिकान्वितम् । नानाकार तु पय स्यामाना [4] पालिकादिमिः ॥ ३७॥