________________
28
द्वादशवखविधानम् महाशाला युगांशेन मध्यमत्र(भद्र) प्रकारयेत् । तले तले विमाने तु शालापजरषोडशम् ॥ १२॥ तुद्रशाला द्विहारा च तन्मध्यं चाष्टकं भवेत् । चतुर्दितु महाशाला चतुष्कूट(ट) तले तले ॥ १३ ॥ एवं व(वि)राटकान्तं स्याच्छेषं भागं तु पूर्ववत् । तदेव भूतभागंन तुद्रशालाविशालकम् ।। १४ ॥
.. हारा च तन्निभागेन युक्त्या च समलङ्कृतम् । शेष प्रागुक्तवत्कुयोत्तदेव करलकान्तकम् ॥ १५ ॥ तदेव हारा तन्मध्ये चैकभागेन सौष्टिकम् । वंश[क]कान्तमिति प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १६ ॥ तदेवानुशालामध्ये भद्रशालैकभागिकम् । एवं मागधकान्तं स्यात्कर्णकूट(ट) सभद्रकम् ॥ १७ ॥ तदेव महाशाला तु(या) द्विभागं मध्यभद्रकम् । जन[क]कान्तमिति प्रोक्तं श्रेष्ठी रवितलान्वितः(तम्) ॥ १८ ॥ एकादशतलोत्तुङ्ग त्रयोदशाशमा(म)धिकम् । तद्भागेन युगांशं तु कुट्टिमोदयमीरितम् ॥ १६ ॥ मष्टांशं पादतुङ्गं स्यात्तदर्ध प्रस्तरोदयम् । प्रधांशं तु शिखोपेतं शेषांशं प्राग्वदुच्छ्रयम् ॥ २० ॥ एवं द्वादशतलं स्यात्तुङ्गं युक्त्या समाचरेत् । एकेन परितोऽलिन्दं तदूर्वार्ध्वतलानि च ॥ २१ ॥ एकानेकतलान्ते च चादिभूमिवशाद्विदुः । अनाहत्य(तां)शकं कृत्वा तदूर्वोतला(लानि) न्यसेत् ॥ २२॥ एकद्वित्रित्रिदण्डं वा मध्यशालाच(लाया) निर्गमम् । अर्धमेक(क) द्विदण्डं वा क्षुद्रशालादिनिर्गमम् ॥ २३ ॥ एकांशात्य(शमध्य)र्धदण्डं वा सर्वेषां भद्रनिर्गमम् । तलं तले च पादादि बहुकृटं चालिन्दकम् ॥ २४ ॥