________________
द्वादशतलविधानम् अन्यभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना । भूमिलम्बविधाने तु विस्तारात्सेधमुक्तवत् ॥ १॥ तुद्राल्पमध्यमुख्य तु यन्मानारम्य(म्य) मानयेत् । विमानस्य विमा(धा)ने तु चोक्तवद्भक्तिसंग्रहम् ॥२॥ पाञ्चालं द्राविडं चैव मध्यकान्तं कलिङ्गकम् । व(वि)राटं केरलं चैव वंशकं मागधं तथा ॥ ३ ॥ जनकं स्फू(गु)र्जकं चैव दशकान्तं प्रकीर्तितम् । रविभूमिविशाले तु चाष्टविंशांशकं भवेत् ॥ ४ ॥ महाशाला दशांशं स्याच्छषं पूर्ववदाचरेत् । पाञ्चालं द्राविडं चैव रविभूम्यल्पहर्म्यके ॥ ५ ॥ मध्यमालयविस्तारे त्रयस्त्रिंशद्विभाजिते । त्रिभागं कूटविस्तारं मध्यभट्टै(द्रमे)कभागिकम् ॥ ६ ॥ महाशाला नवांशं स्याच्छेषं पूर्ववदाचरेत् । मध्यकान्तमिति प्रोक्तं तस्य कूट(टे) द्विभागिकम् ॥ ७ ॥ अनुशाला षडंग(शं) स्यात्तस्याङ्गं पूर्ववद्भवेत् । एवं कालिङ्गकान्तं स्यान्नानालङ्कारसंयुतम् ॥ ८॥ चतुरा(र)धिकत्रिदशभागं हर्म्यविशालके । अष्टांशेन महाशाला पार्श्वे शाला शिवांशकम् ॥ ६ ॥ मंशानुपञ्जरशाला तदर्ध चान्तरालकम् । अनुशाला त्रिभागं स्यादकांशमन्तरालकम् ॥ १० ॥ द्वि(गं)शं पजरशाला च पार्श्व हारं शिवांशकम् । कूटानां च विभागं स्यात्सर्व युक्त्य(क्तया) मभद्रकम् ॥ ११ ॥