________________
२९]
एकादशतस्त्वविधानम्
महाशालानवांशेन मध्ये भद्रं शरांशकम् ।
तन्मध्ये भद्रशाला च बुन्ध ( न्धु) भागेन योजयेत् ॥ १२ ॥ एवं तु वज्रकान्तं स्यादर्क कान्त मिहोच्यते । तदेव शालाप्रान्ते तु पार्श्वे चैकेन सौष्ठिकम् ॥ १३ ॥ तद्द्वयोरन्तरे देशे तत्समं क्षुद्रहारयोः । पूर्ववत्कूट विस्तारं शेषं हारं सपञ्जरम् ॥ १४ ॥ तन्मध्ये तु त्रिभागेन क्षुद्रशाला विशालतः (वा) । तत्पार्श्वे त्रित्रिभागेन हारमध्ये सभद्रकम् ।। १५ ।। तुद्रशाला त्रिभागेन मध्यभद्रं समन्वितम् । क्षुद्रहारा च सर्वेषां नासिकापञ्जरान्वितम् (ता) ।। १६ ।। मध्ये मध्ये महानासि नेत्रशाला च पार्श्वयाः । सर्वालङ्कारसंयुक्तं षड्विधं परिकीर्तितम् || १७ || शेषभागं तु सर्वेषां युक्त्या तत्रैव योजयेत् । एवं विस्तारगण्यं स्यात्तुङ्गगण्य मिहोच्यते ॥ १८ ॥ जन्मादिस्तूपिपर्यन्तं (चो) क्तवत्संग्रहं विदुः । एकादशांशभागेन दशतले दयाधिकम् ॥ १६ ॥ तदेव सार्धबन्धां(न्ध्वं )शं मसूरकोत्तुङ्गमिष्यते । सप्तांशं पाददीर्घ (दैर्घ्य) स्यात्तदर्ध प्रस्तरादयम् ॥ २० ॥ शेषं प्रागुक्तवद्द्वण्यमेकादशतलोदये ।
तोर्ध्वतले सर्वे (र्व) कहर्म्यादिमण्डितम् ॥ २१ ॥ एकभाग (i) द्विभागं वा परितेाऽलिन्दमिष्यते । नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ २२ ॥ शालाकूटैश्व हारैश्च उ (चो) क्तवत्समलङ्कृतम् । हारान्तरे तु कूटशाला च प्रीवदेशेोक्तदेवतान् ॥ २३ ॥
श्रनुशालाष्टदिक्पालांस्तत्तद्वाहनसंयुतम् ।
यतविद्याधरादीनां गरुडादीनि विन्यसेत् ॥ २४ ॥
गणाधिपगणैश्चैव सर्वहर्म्येषु निक्षिपेत् ॥ २५ ॥
इति मानसारे वास्तुशास्त्रे एकादशतलविधानं नाम नवविंशेोऽध्यायः ॥
१७६
24
28
32
36
40
44
48