________________
१७२
मानसारे
अनुशाना त्रिभागा वा भा(हा)रान्तर (रं) द्विभागिकम् । महाशाला त्रिभागेन भद्रशालाविशालता ॥ १२ ॥ शेषं प्रागुक्तवत्कुर्याद्देव (देव) भागाधिकं ततः । मध्यशाला शरांशेन युक्त्या तन्मध्यभद्रकम् ॥ १३ ॥ शेषं तु पूर्ववत्कुर्याद्भूपकान्तमिति स्मृतम् ।
एवं चाष्टतले क्षुद्रहर्म्यमेवं प्रकल्पयेत् ॥ १४ ॥ एकविंशांशकं चाष्टतल हर्म्ये विशालके ।
मध्ये सप्ताष्ट (प्तांश) कं चैव महाशाला (लां) प्रकल्पयेत् ॥ १५ ॥ तन्मध्ये भूतभागेन मध्यशाला सभद्रकम् (का) । तद्बहिश्व त्रिभागेन भद्रशाला विभूषितम् ।। १६ ।। शेषं प्रागुक्तवत्कुर्यात्स्वर्गकान्तमिति स्मृतम् । एवमष्टतलं कुर्यान्मध्यमालयमेव च ॥ १७ ॥ द्वाविंशांशकं तारे च श्रेष्ठमष्टतलं भवेत् । तन्मध्ये चाष्टभागेन महाशाला विशालकम् ।। १८ ॥ तन्मध्ये वेदभागेन कोष्ठशाला सभद्रकम् (का) । महाकान्तमिति प्रोक्तं तन्मध्ये च द्विभागतः ॥ १६ ॥
भद्रशालासमायुक्तं जनकान्तमिति स्मृतम् ।
तच्छालाया द्विपार्श्वे तु नेत्रशाला सभद्रकम् (का) ।। २० ।।
एतत्तु तप (प ) कान्तं स्याच्छेषं प्रागुक्तवन्नयेत ।
तदेव मध्यशाले तु तत्पार्श्वे च विशेषतः ॥ २१ ॥ एकैकं कूटविस्तारं तत्समं हारसंयुतम् । एतत्तु सत्यकान्तं स्याच्छेषं पूर्ववदाचरेत् । २२ ।। तदेवमनुशाला च कुर्यान्मध्य (ध्यं) सभद्रकम् । देवकान्तमिति प्रोक्तं चोर्ध्वतलं न्यसेत् ॥ २३ ॥ एवं श्रेष्ठं त्वष्टले सर्वालङ्कारसंयुतम् ।
जन्मादिस्तु पिपर्यन्तं चाङ्गमानमिहोच्यते ।। २४ ।। सैका टप ह तुङ्गं विभाजिते । प्राधारं चाष्टभागेन वेदांशं चरणायु (य) तम् ॥ २५ ॥
[चध्यायः
24
28
32
36
40
44
48