________________
प्रष्टतलविधानम् प्रष्टतलविमानस्य(न च) लक्षणं वक्ष्यतेऽधुना । पूर्ववतुङ्गमानेन कुट्यमाद्यङ्गं मानयेत् ॥ १॥ पूर्ववद्भक्तिमानेन कूटशालादि मानयेत् । भूकान्तं भूपकान्तं च स्वर्गकान्तं तथैव च ॥ २॥ महाकान्तं जनकान्तं च तप(पस्)कान्तं सत्यकान्तकम् । देवकान्तमिति प्रोक्तमष्टधा नाममे(ए)व च ॥ ३॥ षोडशांशकमाधिक्यं भागं हर्म्यविशालकम् । एकांशं कर्णकूटं स्याद्धारान्तर(रं) शिवांशकम् ॥४॥ वि(द्वि)भागेनानुशाला च तदर्ध चान्तरालकम् ।। सप्तांशेन महाशाला हर्म्यमेतत्तु विन्यसेत् ॥५॥ चतुष्कोणे चतुष्कूटं कोष्ठे हारादिरष्टधा। तुद्रशालाष्टधा प्रोक्तं कोष्ठशाला चतुष्टयम् ॥६॥ मध्यशालात्रिमागेन भद्रशाला च मध्यमे । तत्तत्पार्षद्वयो[रेव] द्विद्विभागार्ध(4) शालयत् ॥७॥ एव(व) मूलतलाद्यैश्च चोर्ध्व(धीतला(लं) न्यसेत् । प्रयवाटादशांशे तु कूटहारा च पूर्ववत् ॥८॥ षड्भागेन महाशाला चतुःशाखा त्रिभागिकम् (का)। मध्यशालै(ला)युगांशेन भद्रशाला च मध्यमे ॥६॥ अनुशाला च मध्ये च ए(वे)कभागेन भद्रकम् । शेषं पूर्ववत्कुर्याद् भूकान्तमुदीरितम् ॥ १० ॥ एकोनविंशदंशेन चाष्टभूमिविशालके। एकैक(क) कूटविस्तारं महाशाला शरांशकम् ॥ ११ ॥