________________
षट्तलविधानम्
अधुना (विधानं) षट्तलं सम्यग् लक्षणं वक्ष्यतेऽधुना । विस्तारं च वि(रात्सेधं)भागं च पूर्ववत्परिकल्पयेत् ॥ १ ॥ सप्ताधिकं तु पञ्चाशद्भागं कुर्यातदुच्छ्रये ।
सार्धबन्ध (न्)धिष्ठानं सप्तांशं पाददीर्घकम् ॥ २॥
तदर्ध प्रस्तरात्सेधमूर्ध्वपादं षडंशकम् ।
तदूर्ध्व मञ्च () त्रियं (त्रयां)शं स्यादूर्ध्वपादं शरांशकम् || ३ ||
तदर्ध प्रस्तरात्सेधं सार्धवेदांशकाङग्रिकम् ।
प्रस्तरं च द्विभागं स्यात्सार्धबन्धां (न्ध्वं ) शमङ्घ्रिकम् ॥ ४ ॥ प्रस्तरं सार्धभाग स्याद्वेदिकां (कामं ) शेन योजयेत् । प्रोक्तुङ्ग (ङ्ग) युगांशं स्याच्छिखरो युगांशकम् ॥ ५ ॥ शेषं तु स्तूपकात्तुङ्गं युक्त्या तत्रैव योजयेत् । एतत्तु पद्मान्तं स्यात्सर्वालङ्कारसंयुतम् || ६ || तदेवाधिष्ठानमंशेन तले तले विशेषतः । एतत्कान्तारमित्युक्तं कर्णहम्र्म्यादिमण्डितम् ॥ ७ ॥ अथ वापिं च दिक्कुर्यात् सुन्दरं चेति कीर्तितम् । अथवा चोपपीठं स्यादुपकान्तमिति स्मृतम् ॥ ८ ॥ अथवा चोर्ध्वतले सर्वे (सर्वस्मिन) वेदि कुर्यात्समभ्वकम् । कमलाख्य(क्ष)मिति प्रोक्तमन्तर प्रस्तरान्वितम् ॥ ६ ॥ तृतीयं मध्वसंयुक्तं रनकान्तमिहोच्यते ।
चतुर्थ प्रस्तरैर्युक्तं विपुलाङ्कमिति स्मृतम् ॥ १० ॥ पञ्चमं मध्चयुक्तं स्याज्ज्योति (तिष्) कान्तमिति स्मृतम् I
तदेव भद्रसंयुक्तमेतत्प्रोक्तं सरोरुहम् ॥ ११ ॥
8
12
16
20