________________
१६८
मानसारे
तद्गीवादि शिखान्तं च विपुलाकृतिकं भवेत् । तदेव शिखरो(रं व)स्वनं स्वस्तिकान्तमिति स्मृतम् ॥ १२ ॥ तदेव चतुरअं स्यानन्द्यावर्तमिहोच्यते । तदेव गल(लं) वस्वअमितुकान्तमिति स्मृतम् ॥ १३ ॥ एवं त्रयोदशं नाम्ना प्रोक्तं षट्तलहऱ्याके। त्रिचतुष्पञ्चषट्सप्त(प्त) मध्यकोष्ठं विशालकम् ॥ ११ ॥ एकद्वित्रिचतुष्पञ्चभागं हारं सपञ्जरम् । एकं वाथ द्विभागं वा कर्णकूट विशालकम् ।। १५ ॥ तले तले कर्णकूटं कोष्ठहारादिभूषितम् । एकद्वित्रिविभागं च हारमध्ये तु भद्रकम् ॥ १६ ॥ एकद्वित्रिचतुष्पञ्च(च) कोष्ठमध्ये तु भद्रकम् । कर्णकूटविशाले तु त्रिभागैकं मध्यभद्रकम् ॥ १७ ॥ भद्रशाला महानासी चार्धशालाद्यलङ्कतम् । पादिभूमिक्रियायुक्त्या(क्ता) चोोर्ध्वतला(लानि) न्यसेत् ॥ १८ ॥ वि(द्वि)तनात्षट्तलान्तं स्यादेवं युक्त्या समलङ्कृतम् । नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ १६ ॥ नानापजरशालाना(भिः) नासिकापञ्जरान्वितम् । प्रस्तरादिकपोतान्तं तुद्रनास्या विभूषितम् ॥ २० ॥ शिखरे च मध्यनास्यैः सुद्रकपोतनासिकाः । वि(सर्व)शनासिकायुक्तं सर्वालङ्कारसंयुतम् ।। २१ ॥ प्रोवे च क्षुद्रपादानां युक्त्या च समलङ्कृतम् । कर्ण हादिसंयुक्तं यत्तलोपरिदेशके ॥ २२ ॥ एकभाग(गं) द्विभागं वा मूलव्यावृतालिन्दकम् । ऊध्वव॑ितलानां तु चैकमार्गन(ना)लिन्दकम् ।। २३ ।। एतत्षट्तलं प्रेक्तं शेषं युक्त्या (कुर्याच्) च पूर्ववत् । पूर्वोक्तसकलानामपि देवानां तत्राखिलसौधकोष्ठकेषु ॥ २४ ॥ ब्रह्म(मा)विष्णुशिवा(व)नारदैः सह सङ्कलैः कुरुते शिल्पिवित्तमः ।। २५ ।। इति मानसार वास्तुशास्त्रे षट्तलविधानं नाम चतुर्विंशोऽध्यायः ॥