________________
मानसारे
मध्ये पञ्चचतुस्तद्वितलं पञ्चतलं भवेत् । मूर्तिकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥ १२ ॥ तदेव हर्षं विदिक्ष्वेच(क्ष्वेव च) तत्तन्मौलालयं भवेत् । गृहकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयंत् ॥ १३॥ तद्वहिः परितो देशे कुर्यात्षाडशालयम् । गृहकान्तादिहम्र्येषु चतुर्दिक्षु समालयम् ॥ १४ ॥ पञ्चविशत्युपपीटं प्रोक्तं यमकान्तमेव प्रकय्यते । तदेवं परितो बाह्ये चतुर्विशतिरालयम् ॥१५॥ गृहकान्तादिहर्येषु चतुर्दिक्षु समालयम। महाकान्तमिति प्रोक्तमेतत्पञ्चतलं भवेत् ॥ १६ ॥ गृहकान्तादिहर्येषु चतुर्दिक्षु समालयम् । कुर्यात्तत्कल्याणमेतदिदं पञ्चतलान्वितम् ॥ १७ ॥ प्रासादाध समं वापि त्रिपादं वा समं तु वा। अन्तरालं विशालं स्यादथवा हस्तमानतः ॥१८॥ त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् । नवपङ्किकरान्त(न्तं) स्यादन्तरालविशालकम् ॥ १६ ॥ अन्तराले यथायुक्त्या मण्डपाकार(पं) विन्यसेत् । अथवा त्रिकूटयुक्तं वा मूलस्य मुखपार्श्वयोः ॥ २० ॥ यज्ञकान्तमिति प्रोक्तमेकानकतलान्वितम् । पञ्चषट्स्वेकभूमि(मिः) स्याद्वितलं त्रितलं तु वा ।। २१ ॥ पञ्चब्रह्ममि(इ)ति प्रोक्तं सर्वालङ्कारसंयुतम् । . एतदष्टविधं प्रोक्तं शेषं प्रागुक्तवन्नयंत् ॥ २२ ॥ शिखरादि यथाकारं चैकाकारं तु योजयेत् । सर्वेषां देवतानां च हर्म्यमेवं प्रकल्पयेत् ॥ २३ ॥ एतत्सर्व हhके दितु कूटम्
शालानासिकापञ्जराव्यम् । नानारङ्गान्वितालिन्दयुक्तम्
पूर्वोक्तानां युक्तित: कारयेत्तत् ॥ २४ ॥ इति मानसार वास्तुशास्त्र पञ्चतनविधानं नाम त्रयोविंशोऽध्यायः ॥