________________
पञ्चतलविधानम्
पञ्चभूमिविधानस्य (नं च) लक्षणं वच्यतेऽधुना । क्षुद्र (द्रं) मध्यं च मुख्यं च विशालं भागमुष्छ्रयम् ॥ १ ॥ प्रागुक्तवत्प्रगृह्यं (ह्य) तु कुर्यात्पञ्चतलं बुधः ।
चतुर्विंशांशकं तुङ्गे सात्य(चाध्य) धशमसूरके ( कम ) ॥ २ ॥ बन्धां(न्ध्वं)शं पादतुङ्गं स्यादत्य (ध्य )र्ध प्रस्तरोदयम् । सपादद्वि(द्वयं)शकं पादं मचोर्ध्व सशिवांशकम् ॥ ३ ॥ द्विभागं स्यात्प्रस्तरोचं शिवांशकम् । सत्रिपादांशकं पादं प्रस्तरोचं शिवांशकम् ॥ ४ ॥ तदर्धं वेदिकोत्तुङ्गं चन्द्रांशं च गलादयम् ।
मस्तकं चा(ह्म)र्धभागं स्याच्छेषं तु तच्छिरो (खा ) दयम् ॥ ५ ॥ कर्णहम्र्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ।
ऐरावतमिति प्रोक्तं गन्ध(तत्) स्कन्धोच्च संवृतम् ( तं च ) ॥ ६ ॥ तदेव विस्तृतार्धेन चतुर्दिक्षु समन्वितम् ।
निर्गमं तु यथायुक्तं चतुर्दिक्षु ( दिक्त्रिं ) तलं भवेत् ॥ ७ ॥ एतत्तु भूतकान्तं स्यात्पञ्चभौमविदो विदुः । विशालेन त्रिपादेन पूर्ववद्भद्रसंयुतम् ॥ ८ ॥ चतुर्दिक्षु तलं कुर्यात्कर्णहम्र्म्यादि मण्डितम् । विश्वकान्तमिति प्रोक्तमेवं पञ्चतलं विदुः ॥ ६ ॥ श्रथवा विस्तृतं तुल्यं चतुर्दिदेवालयं स्मृतम् । तस्मान्रिभूलहर्म्यान्तं तद्द्द्वयोर्मूलदेशके ॥ १० ॥ अन्तरालं प्रकुर्वीत पार्श्वे सोपानसंयुतम् । सर्व प्रदक्षिणं कुर्याद्युक्त्या द्वारं प्रकल्पयेत् ॥ ११ ॥
4
8
1241
16
20