________________
१६४
मानसारे
[अध्यायः २२] अथवा द्वि(य)शमाश्रित्य लिङ्ग (यालिन्द) कुर्याद्विचक्षणः । तदूर्ध्वं विस्तृता(तं) बाह्ये द्वि(य)शेनावृत(त) पूर्ववत् ॥ ४० ॥ तस्यान्तश्चोक्तवत्कुर्याद्भागमेवर(म)लङ्कृतम् । एकेन कहादिमण्डितं चावृतं न्यसेत् ॥ ११ ॥ भागेन परितोऽलिन्दं चोर्ध्वं तद्व(त्त)जलस्थलम् । तत्तद्वाह्येऽपि सर्वाङ्ग कर्णहादिमण्डितम् ॥ ४२ ॥ द्विभागेन तु मध्ये तु शालायामं तु विन्यसेत् । कूटानामेकभागेन शेषं हार(रं) सपज्जरम् ॥ ४३ ॥ इन्द्रकान्तमिति प्रोक्तं क्षुद्र(द्रे) मध्ये च मुख्यके । तन्मुखे मण्डपं युक्तं तदक्षिणे मण्डपं स्यात् ।। ४४ ॥ प्राग्दिशि सोपानमध्यानामूलवासनराननम् । सालामूलस्य तन्मध्ये चोर्ध्व तत्र समायुतम् ॥ ४५ ॥ शेषं पूर्ववदुद्दिष्टं चाष्टधा विधमीरितम् । क्षुद्रं मध्यं मुखं(ख्य) च कुर्याद्धयं सर्वदेवता(वा)नाम् ॥ ४६॥ अन्येषामुक्तमान युक्त्या कुर्यात्पुरातनैः कथितम् । नानाधिष्ठानपादैश्च वलभिश्च बहुविधैः [ युक्तम्] ॥४७ ।। कूटनीडैश्च शाले(लाभि)श्च भदैर्दा(र)ष्टपादगर्भबहुतारैः । हुदैश्च नासागणैर्नानापजरवेदितोरणमहानासैश्च वातायनैः ॥४८॥ कोष्टविद्याधराद्यैर्गर्भाधिपतिसुरान्भूषणं कुर्व(रु)ते स्म ॥ ४६॥ क्षुद्रमन्यमथ मुख्य(ख्यं) भौमके
रुद्धविष्णुजिनकादिहhके । दक्षिणामूर्तिनरसिंहमूर्तितत्त्वादि
मूर्तिपुरतोक्तदेवानाम् ॥ ५०। एवं मूर्ति दक्षिणादिक्रमेण
__एकानेकभौमतस्तस्थलादीन् । कुर्यात्सर्व प्रोवदेशे पतित्वाद्
युक्त्या धीमान देवतां विन्यसेत्तत् ॥५१॥ . इति मानसारे वास्तुशास्त्रे चतुम्तलविधानं नाम द्वाविंशोऽध्यायः ॥