________________
१६२
मानसारे
एतचतुर्मुखं प्रोक्तं सर्वालङ्कारसंयुतम् । पञ्चषट्त्रिंशदंशं स्यात्तुङ्गाधीश (शं) मसूरकम् ॥ १२ ॥ पथ्यांशं पादतुङ्गं स्यात्तदर्ध प्रस्तरोदयम् ।
ऊर्ध्व वेदांशकं पादं प्रस्तरं च द्विभागिकम् ॥ १३ ॥ सार्धबन्धां (न्ध्वं )शपादोर्ध्वं तदर्ध प्रस्वरोदयम् । तदूर्ध्वाङघि गुणांशं स्यादत्य (ध्य) र्ध चोर्ध्वमञ्चकम् ॥ १४ ॥ वेदिकोचं शिवांशं स्यात्तद्द्वयं प्रोवतुङ्गकम् ।
शिरीषं (खरं च युगांशं स्याच्छेषांशं तच्छिखादयम् ॥ १५ ॥ मूले तु पूर्ववत्कुर्याचतुर्द्वारसमन्वितम् ।
एवं सदाशिवं प्रोक्तं सर्वालङ्कारसंयुतम् ॥ १६ ॥ भागेन चतुरांशं हर्म्यतुङ्ग विभाजिते । द्विभागाधिष्ठान [स्यात् ] तद्द्द्रयं पादतुङ्गकम् ॥ १७ ॥ युगांशं मध्यतुङ्ग स्यादंशं चोर्ध्वमसूरकम् ।
तदूर्ध्वे पाद (दं) बन्धां (ध्वं ) शं गोपानाचं तदर्धकम् ॥ १८ ॥ तदूर्ध्वे कुट्टिमं चांशं सार्धपक्षाङ्घ्रितुङ्गकम् ।
सपादांशं (दं) प्रस्तरोन्तुङ्गं त्रिपादूर्ध्वे मसूरकम् ॥ १६ ॥ सपादद्र (अं)शकं चाङ्घ्रि चांशेन प्रस्तरोदयम् । तदर्धदिको सार्धभागं गल्लोदयम् || २० || शिखराचं गुद्यांशं स्यात्तदर्घ तच्छिरा ( र उ ) दयम् । उद्रकान्तमिति प्रोक्तं कर्णहम्यादिभूषितम् ॥ २१ ॥ तदेव (मं) हर्म्यमूले तु पूर्ववत्परिक्रलायंत् । तचतुर्द्वारसंयुक्तं चांशेन भद्रसंयुतम् ।। २२ ।। एवमीश्वरकान्तं स्यादधिष्ठानादि (नं) क्रमान्नयेत् । तुझे पञ्चदशांशं स्याद्वह्मशक (क) मसूरकम् ॥ २३ ॥ पादतु पर्दशं स्यात्प्रस्तरोचं गुढांशकम् । तत्समं चोर्ध्वमयं स्यात्तदूर्ध्वं पञ्जरांशकम् ॥ २४ ॥
तदर्ध प्रस्तरोत्सेधमूर्ध्वमयं द्विभागिकम् । वेदिको शिवांश स्यात्सार्धद्वि (अं)शं गलोदयम् ॥ २५ ॥
[ अध्यायः
24
28
32
36
40
44
48