________________
१६०
मानसारे
तद्भयं पाददीर्घं(दैर्घ्यं) म्यात्तदर्थं प्रस्तरोदयम् । ऊर्ध्वाङ्गं पूर्ववत्कुर्यादेतत्कैलासमीरितम् ॥ २६ ॥ मारुह्य प्रदक्षिणं कुर्याद्धर्म्यमेवं तु पूर्ववत् । एतदष्टविधं प्रातं त्रितले चोत्तमं मतम् ॥ २७ ॥ विशाले तु यथाभागं कूटानां चैकभागिकम् । मध्ये द्वित्रिचतुर्भागं शालाकोष्ठं प्रकल्पयेत् ॥ २८ ॥ एकद्वित्र्यंशकेनैव हारा सपञ्जरान्वित (ता) म् । परिवश्चैकभागेन कूटशालादिभूषितम् ॥ २६ ॥ तस्यान्तश्चावृतांशेन चोर्ध्वदेशे जलस्थतम् । एकं वा द्वित्रिदण्डेन भद्रनिर्गममीरितम् ॥ ३० ॥ हारा च तत्रिभाकं मध्यशालाविभूषितम् । अष्टकूटममायुक्तं कोष्टकं चाष्टसंयुतम् ॥ ३१ ॥ षोडशाहार (शहास) संयुक्तं सर्वालङ्कारसंयुतम् । नानाधिष्ठ'नसंयुक्तं नानापादैरलङ्कृतम् ॥ ३२ ॥ नानातारणैर्नीडैर्नानावेद्यै(दिभिरलङ्कृतम् । त्रिव कूटकोष्ठादि हारादीन् गलदेशके ।। ३३ ।। मूलपाद प्रदेशे तु कुर्यात्तु सर्वदेवताः ।
देवादीनां पुरायैश्व देवतानां च विग्रहम् ॥ ३४ ॥ युक्त्या 'सर्वप्रयत्नेन विन्यसेल क्षणोक्तवत् । प्रीवादिसचिवा (शिखान्तश्च पूर्वोक्तानां च संगतम् ॥ ३५ ॥
प्रोवमस्तक शिखा प्रदेश के
नागरादिसमलङ्काक्तवत् ।
देवता दिशि चाष्टता न्यसेद्
विष्णु (ष्णो) रीश्वरजिनादि (३)रालये ।। ३६ ।।
इति मानसार वास्तुशास्त्र त्रितनविधानं नाम एकाविंशोऽध्यायः ॥
[ चध्यायः २१]
52
56
60
64
68
72