________________
२१]
त्रितल विधानम् तदेकांशमधिष्ठानं द्विभागं पाददीर्घ ( दैर्ध्य ) कम् | तदर्ध प्रस्तरात्सेधं त्रिपादं चोर्ध्वपीठकम् ॥ १२ ॥ तत्समो(ममू)र्ध्वे त्वधिष्ठानं तद्द्वयं पाददीर्घ ( दैर्घ्य ) क्रम् । तदर्ध प्रस्तरं चोर्ध्वे सार्धशेन मसूरकम् ॥ १३ ॥ एकांशं पाददीर्घ (दैर्घ्य) स्यादधांशं मञ्चतुङ्गकम् । तदर्ध वेदिकात्तुङ्गं तद्वयं ग्रीत्रतुङ्गकम् ॥ १४ ॥ श्रीवतुङ्गद्वयं चोर्ध्वं मस्तकमर्ध शिखादयम् । एवं सुखालयं प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १५ ॥ तस्यापपीठदेशेतु चाद्धृता हरितान्वितम् । एतत्तु केसरं प्रोक्तं कमलाङ्गमिहोच्यते ।। १६ ।। चतुर्विंशांशकं (क) तुङ्गे श्रोकान्तस्याकृतिस्तथा । सर्वाङ्गकं गवाक्षं स्यात्कर्णहर्म्य विना तथा ॥ १७ ॥ नानावेदिकया युक्तं नानास्तम्भैरलङ्कृतम् 1 चतुर्दिग्वारणं कुर्यात्संकीर्ण द्रव्यसंयुतम् ॥ १८ ॥ श्रादिभूतं तु कुत्र्यं (ड्यं) स्यात्तदूर्ध्वत्यङ्घ्रिसंयुतम् । सर्वालङ्कारसंयुक्तं कमलाङ्गमुदीरितम् ॥ १६ ॥ तदेव कर्ण हर्म्यादियुक्तं वेद्यादिभूषितम् । सर्वालङ्कारसंयुक्तं ब्रह्मकान्तमिति स्मृतम् ॥ २० ॥ अथवा तुङ्गमाने तु त्रिंशदंशं विभाजिते । अधिष्ठानं द्विभागं स्यात्तद्वयं पादङ्गकम् ॥ २१ ॥ तदर्ध प्रस्तरात्तुङ्गं चोर्ध्वमवं तु तत्समम् । सार्धवह्मंशकं चार्श्वे पादं साधींश (शं) मञ्चकम् ॥ २२ ॥ तत्समं चोर्ध्वमञ्चं स्यादूर्ध्वे पादं गुणांशकम् । सपादांशं प्रस्तरं स्यात्तत्समं चोर्ध्वमश्चकम् ॥ २३ ॥ तदर्ध वेदिकात्तुङ्गं तत्समं कन्धरोदयम् ।
प्रोद्वयं शिरा ( र उत्तुङ्गं शेषं तु स्तूपितुङ्गकम् ॥ २४ ॥ कर्णहर्म्यादिसंयुक्तं मेरुकान्तमिति स्मृतम् । तदेवैकांशमाधिक्यं मूले वंशमासनम् ।। २५ ।।
१५६
24
28
32
36
40
44
48