________________
२०]
द्वितलविधानम्
एकादशार्कहस्तान्तं पञ्चधा निर्गमं भवेत् । पञ्चषट्करमारभ्य द्विद्विहस्तविवर्धनात् ॥ २५ ॥ सैकार्कमनुहस्तान्तं निर्गमं पश्वधा भवेत् । क्षुद्राल्पमध्यमुख्यानां युक्त्या तत्रैव योजयेत् ॥ २६ ॥ अथ हर्म्यविशालार्ध तत्समं निर्गमं तु वा । यत्तद्भक्तिविशाले तु कूटमेकैकभागिकम् ॥ २७ ॥ एकं वाथ द्विपादं वा तस्य द्वारा विशालकम् । द्विभागं वा त्रिभागं वा मध्यशालाविशालता ॥ २८ ॥ हयें चोर्ध्वतले पादं बाह्यकूटादि विन्यसेत् । कहम्यकृतिं वाथ चान्तरं प्रस्तरं तु वा ॥ २६ ॥ त्रिचतुः (तुषु) पचाङ्गुलं वापि द्वितलेऽङ्घ्रि विशालकम् । तच्चतुः(तुष)पञ्चषट्सप्तसाष्टांशाङ्घ्रिविशालके ।। ३० ।। तत्तदेकांशहीनं स्यादूर्ध्वे पादविशालकम् ।
शाला कूटश्च पादौ च बाह्ये मध्यान्तरालकम् ॥ ३१ ॥ नासिकापञ्जरैः शाला कुम्भपादादिभूषितम् । तोरणैर्नीडभद्रादि [भिः] मूले चार्श्वे च भूषितम् ॥ ३२ ॥ नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् । नानागोपानसंयुक्तं क्षुद्रनास्यैर्विभूषितम् ॥ ३३ ॥
अर्धशाला विशेषोऽस्ति चोर्ध्वशालासमन्वितम् । तदृर्ध्वं प्रस्तरान्तः स्यान्नासिकाभिरलङ्कृतम् ॥ ३४ ॥ कूटानां चतुरश्रं स्यान्मध्ये मध्यं तु नासिका । एक द्वित्रिचतुर्दण्डं मध्यभद्वैस् (द्रस्य) तु निर्गमम् ॥ ३५ ॥
चतुःशाला चतुः (तुष्) कूटं चाष्टभा (हा-) रं सपञ्जरम् । एकदण्डा (ण्डम)र्धदण्डं वा चोर्ध्वकूटादिवेशनम् ॥ ३६ ॥ मध्यकोष्ठे द्विपार्श्वे तु चार्धशालासमन्वितम् । तदूर्ध्वं मध्यमे नासि तत्पार्श्व वज्रनासिकम् ॥ ३७ ॥
१५५
52
56
60
64
68
72