________________
१५४
मानसारे
शं शिरतु (स्तु) ङ्गं स्यात् (स) गदांशं शिखरोदयम् । चतुर्थ द्वितलं प्रोक्तं तदेव शिखरं विदुः ॥ १२ ॥ लम्बनं सार्धभागेन गोपानादि क्रियान्वितम् । शेषं प्रागुक्तवत्कुर्यात्पवधा द्वितलं विदुः ।। १३ ।। एकादशांशकं तुङ्गमेकांशेन मसूरकम् ।
अनिका (कम) धितुङ्गं स्याच्छिवांशं प्रस्तरोदयम् ॥ १४ ॥ तदूर्ध्वं चापपीठं स्यात्तत्समं च मसूरकम् । तद्द्रयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।। १५ ।।
I
तत्समं वेदितुङ्गं स्याच्छिवांशं गलतुङ्गकम् । शिखराचं द्विभागं स्यादेकांशं स्तूपिकोदयम् ।। १६ ।।
षष्ठमं(कं) द्वितलं प्रोक्तं सप्तमं वक्ष्यतेऽधुना । एकादशांशकं तुङ्गे चैकांशेन मसूरकम् ॥ १७ ॥ द्विभागं पादतुङ्गं स्यात्प्रस्तरं चाम्बरांशकम् । कुर्यात्तत्रव (घ) नं चोर्ध्वे त्रिपादांश (शं) मसूरकम् ॥ १८ ॥ तद्द्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
तदूर्ध्वेऽङ्घ्रि सपादांशं एकां (चार्ध) शं प्रस्तरोदयम् ॥ १६ ॥
पादांशं वेदिकात्तुङ्गं तद्द्द्वयं गलतुङ्गकम् । शिखराचं शिवांशं स्यात्तदर्ध तच्छिखेोदयम् ॥ २० ॥ द्वितले सप्तकं प्रेाक्तं त्रयाङ्घ्रिक हर्म्यकम् । तदेवांशाधिकं तुङ्गे तन्मूले प्रस्तरे। र्ध्वके ॥ २१ ॥ अंशेन चोपपीठं स्यादधिकं द्वितलं स्मृतम् । एवं दण्डवशात्कुर्यान्निर्गमं तदिहाच्यते ॥ २२ ॥ प्रागुक्तविस्तृतं बाह्ये निर्गमं परितस्तथा । एकदण्डं द्विदण्डं वा त्रिदण्डं निर्गमं स्मृतम् || २३ || एकहस्तं द्विहस्तं वा त्रिहस्तं वाथ निर्गमम् । त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ २४ ॥
प्रध्यायः
24
28
32
36
40
44
48