________________
१५०
मानसारे
तदेवाकारमायामं तत्तन्नाम्ना प्रकीर्तितम् ॥ ६६ ॥ एवं प्रोक्तं हर्म्यके मध्य भद्रं
शालाकोष्ठं दिग्विदिक् कूटयुक्ता (क्तम्) ।
हारा श्रान्ता नासिका पञ्जराढ्यं
कुर्यात्सर्व वेदिकाभद्रयुक्तम् ॥ ६७ ॥
हर्म्यतारसमं चतुरंशकं तत्रिपादमर्धमथापि च
कुड्यतारसमादि यथाक्रमम् ।
कन्यसं त्रिविधं मुखमण्डपम्
तन्मुखमण्डप (पं) मुख्यविमाने ॥ ६८ ॥
मध्यविमानस (स्य) मण्डपपार्श्वे
अम्बरं दण्डमथ द्वयदण्डम् |
हर्म्यवशादुपवेशनयुक्तम्
यत्तत्क्षुद्र विमाने तन्मुखे मण्डपं स्यात् ॥ ६६ ॥ तद्द्द्वयोर्मध्यदेशे चैकाद्य(ध्य)र्ध हस्तविस्तारम् । अथवा त्रिपादहस्तं स्यात्प्रासादार्ध ( ) मथ कथितम् ॥ १०० ॥ एकद्वित्रिदण्डं वा चान्तरालस्य वेशनं स्यात् । कुम्भे स्तम्भसहितनासिका पञ्जरयुक्तमेव वा ॥ १०१ ॥ शालापञ्जरयुक्तं तारणैः समलङ्कृत्य युक्त्या । एकद्वित्रिचतुर्हस्त्या स्तम्भयुक्तमिति कथितम् ॥ १०२ ॥ प्रथवा द्वारयुतं पूर्ववद्द्द्वारमानेन कुर्यात् । तद्द्वारमुखसोपानं हस्तिहस्तेन भूषितं सम्यक् ॥ १०३ ॥ युग्ममण्डपदेशे तत्सममूलेव (एव) मलङ्कृत्य । अन्यमण्डपदेशे यन्मानारम्यमलङ्कृत्य ( तम् ) ॥ १०४ ॥ मण्डपे प्रस्तरस्योर्ध्वे कर्णद्दर्म्यादिमण्डितम् । यतनामान्तरालं चोर्ध्वे नासिकाजालपञ्जरं वापि ।। १०५ ।।
तत्तन्मण्डपमध्ये प्रासादवशाद्द्द्वारं संकल्प्यम् । पूर्ववत्कवाटयुक्तं मण्डपस्यान्तः सफलयुक्तम् ।। १०६ ॥
[ चध्यायः
192
196
200
204
208
212
216