________________
एकतलविधानम् तत्तद्वहिरदेवा[न] न्यसेदेतवारपार्श्वयाश्चैव । नन्दिमहाकालादौ चोक्तवद् द्वारदेवा[न] न्यसेत् ॥ १०७ ॥ मण्डपे(पस्य) दक्षिणे कोष्ठे नृत्तयुक्तै(क्तमे)व विनायकमुक्तम् । मण्डपसौम्यकोष्ठे स्थानदुर्गयुक् स्थापयेत्तत्स्थम् ॥ १०८ ॥ प्रासाददक्षिणे मध्यकोष्ठे व्यानदक्षिणामूर्तिम् । तदूर्ध्व प्रोवकोष्ठे गेयमूर्ति वीरभद्रं वापि ॥ १०॥ पश्चिममूलतले मध्ये कोष्ठे लिङ्गमुद्भूतम् । अथवार्धनारीश्वर(रं) स्थानकं विष्णुं स्थापयेदापि ॥ ११० ॥ तदूधै ग्रोवकोष्ठे तु केशवनृसिंहाच्युता[ना सीनम्(नान्) । सौम्यके मूलतले कोष्ठे स्थानकं चतुर्मुखं स्यात् ॥ १११ ॥ तदूर्ध्व प्रीवकोष्ठेऽथ नदं(नारद) कमलं (लज) वापि । पूर्वे गलदेशे मध्यकोष्ठे गुहं गजारूढम् ॥ ११२ ॥ निशापतिं वाथ सर्वया तत्तहेव्या सहासन[स्थ]मुक्तम् । इन्द्रस्य दक्षिणद्वारात्परितः षोडशविग्रहं कुर्यात् ॥ ११३ ॥ प्रस्तरोपरि[तं] देशे कोणे कोणे स्थापयेद्वृषभम् । कणकमेकमूर्ध्व च द्वयं वाथ वृषभसंयुक्तम् ।। ११४ ।। एकानेकतलं सर्वमेतद्देवान्पुराणसंयुक्तम् ।। एवं शिवहाणां योग्यं विनोदमन्यदेवानाम् ॥ ११५ ।। तत्तद्वारमुक्त ए(चै)कानेकतलोपेतं सर्वम् । अथवा विष्णुविमाने ति] देवस्थापनं वक्ष्यामः ॥ ११६ ।। द्वारे चण्डप्रचण्डौ च मण्डपयाम्ये वनित(ता)म् । प्रागुक्तवत्सौम्यदेशे विमाने पूर्ववहेवतां वापि ॥ ११ ॥ हरिं वा गरुडं वा कुर्यात्पुरता(पूर्वो)क्तचतुष्कोणे । शयनं वासनं सिंह ताय॑ कृताजल्यासनयुक्तम् ।। ११८ ॥ पोत्री नृसिंहमथ केशवमश्वत्थ(स्थं) कर्णात्पूर्वादिदितु चतुषु । पूर्वकान्त(प्रोक्त)हम्र्ये (म्य)कभूमिगलदेशमिति प्रतिष्ठा कुर्यात् ।। ११६ ।।